________________
तद्धिते द्वितीयः पादः
[ ३२९. मूल्यम् केयं वा भवति । द्वौ गुणौ एषां मूल्यभूतानां यवानाम् ]
द्विमया यवा उदश्वितः मूल्यम् । एवं च त्रिमयाः । चतुर्मयाः । द्वौ गुणौ यस्य उदश्वितः क्रेयस्य द्विमयम् उदश्वित् यवानां क्रेयम् । एवम् त्रिमयम् । चतुर्मयम् । गुणात् इति किम् ? उदश्वितः त्रयाणां भागानां द्वौ भागौ यवानां मूल्यभूतानाम् ॥ १ ॥
संजातम् 'तारका'आदिभ्यः इतः।२। 'तद् अस्य' इति वर्तते । 'तद्' इति प्रथमान्तेभ्यः 'तारका'आदिभ्यः 'अस्य'इति षष्ठ्यर्थे 'इत'प्रत्ययो भवति, तत् चेत् प्रथमान्तं संजातं स्यात् ।
तारकाः संजाताः अस्य तारकितं नभः । पुष्पितः तरुः । तारका पुष्प इत्यादि। बहुवचनम् आकृतिगणताद्योतनार्थम् ॥ २ ॥
गर्भात् अप्राणिनि । ३ । 'गर्भ'शब्दात् 'तद् अस्य संजातम्' इत्यस्मिन्नर्थे 'इत'प्रत्ययो भवति, चेत् स षष्ठयर्थः प्राणी न स्यात् । गर्भितः व्रीहिः । अप्राणिनि इति किम् ? गर्भिणी गौः ।। ३ ।।
क्षेन्ने अन्यस्मिन् नाश्ये इयः। ४ । 'क्षेत्र'शब्दात् निर्देशात् एव सप्तम्यन्तात् अन्योपाधिकात् नाश्ये अर्थे 'इय'प्रत्ययो भवति ।
अन्यस्मिन् जन्मान्तरसंबन्धिनि क्षेत्रे शरीरे नाश्यः क्षेत्रियः-असाध्यः-व्याधिः । क्षेत्रियं विषम् तद्धि शरीरात् अन्यस्मिन् परशरीरे संक्रमथ्य किश्चित् नाश्यं भवति । क्षेत्रियाणि तृणानि तानि हि सस्यक्षेत्रे अन्यस्मिन् उत्पन्नानि नाश्यानि भवन्ति । क्षेत्रियः पारदारिकः, स हि परदारेषु क्षेत्रात् अन्यस्मिन् क्षेत्रे विनाश्यो [निग्राह्यो] भवति, दाराश्च क्षेत्रम् ॥ ४॥
छन्दः 'अधीते' श्रोत्रश्चास्य वा । ५। . 'छन्दस्'शब्दात् 'अधीते'इत्यस्मिन्नर्थे 'इय'प्रत्ययो वा भवति, तद्योगे च अस्य 'श्रोत्र'आदेशो भवति । ... छन्दः अधीते श्रोत्रियः, छान्दसः ॥ ५ ॥
१. खण्डितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org