________________
॥ तद्धिते प्रथमः पादः खण्डितः ।
तद्धिते द्वितीयः पादः [यादेः गुणात् मूल्यक्रेये मयट् । १। यादेः गुगवृत्तेः संख्याशब्दात् 'तद् अस्य' इत्यर्थे मयट् भवति, स चेत् षष्ठ्यर्थः १ अस्य श्रीमलयगिरिशब्दानुशासनस्य द्वौ एव आदी लिखितपुस्तके -लभ्येते । एकः पूनास्थितभाण्डारकरप्राच्यविद्यामन्दिरस्य, अन्यः गुजरदेशान्तगतपाटणस्थितश्रीहेम चन्द्राचार्यजैनज्ञानमन्दिरस्य । तत्र यः पूनासस्कः आदर्शः स आदिभागात् त्रुटितः अन्तभागेऽपि त्रटितः एतस्मिन् आदर्श
ततः परं तद्धितप्रकरणं न लभ्यते अर्थात् पूनासत्के आदर्श आदितः एव तद्धितप्रकरणं न लभ्यते।
यश्च पाटणसत्कः आदर्शः तत्र तद्धितप्रकरणं तु विद्यते परन्तु तत् आदितः एव खण्डितम् मध्ये मध्येऽपि खण्डितम् अन्ते तु विशेषतः खण्डितम् ।
अस्य व्याकरणस्य प्रथमप्रकरणात् आरभ्य कृत्प्रकरणं यावत् प्रतिप्रकरणं समाप्तौ केवलं पादस्य एव निर्देशः कृतः न क्वापि अध्यायस्य परन्तु अस्मिन् तद्धितप्रकरणे एकस्मिन् समाप्तिसूचके उल्लेखे अध्यायेन सह पादस्यापि निर्देशः कृतः ।।
श्रीमलयगिरिणा तद्धितप्रकरणे प्रतिपकरणं ये समाप्तिसूचका उल्लेखा विहिताः ते एवम् - १ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते द्वितीयाध्याये द्वितीयः पादः समाप्तः। २ इति श्रीमलय............तद्धिते अष्टमः
। नवमः पादः समाप्त:
.. दशमः पादः समाप्तः एषु तद्धितप्रकरणसंबन्धिषु चतुर्यु निर्देशेषु प्रथमे एव निर्देशे अध्यायेन सह पादस्यापि निर्देशः विहितः अन्येषु - प्रथमेतरेषु उल्लेखेषु केवल पादस्यैव निर्देशः कृतः अतः न कल्पयितुं शक्यम् यत् आचार्य हेमचन्द्रवत् श्रीमलयगिरिणाऽपि अस्मिन् तद्धितप्रकरणे केवले अध्यायानाम् अध्यायान्तर्गतपादानां च योजना कृता वा न-इति, यतः अनेन प्रस्तुतव्याकरणविधात्रा एक निर्देशं विहाय अन्यत्र सर्वत्र समाप्तिसूचकेषु निर्देशेषु 'पादः समाप्तः' 'पादः समाप्तः । इत्येवमेव निर्देशः कृतः ।
अन्यश्च तद्धितप्रकरणसूचकेभ्यः एतेभ्यो निर्देशेभ्यः स्पष्टं ज्ञायते यत् अस्मिन् प्रकरणे प्रथमः समग्रोऽपि अध्यायो नोपलभ्यते ।।
द्वितीयेऽपि अध्याये केवलं द्वितीयः अष्टमः नवमः दशमः एते एव पादाः उपलभ्यन्ते अन्ये तृतीयाद् आरभ्य सप्तमपर्यन्ताः पादा नष्टाः यच्च दशमपादानन्तरमपि यत् प्रकरणं समुपलभ्यते तत् खण्डितम् ततः पश्चात् किमपि भवेत् वा न इति न ज्ञातुं शक्यम् । दशमपादानन्तरस्य प्रकरणस्य खण्डितत्वेन ज्ञायते यत् तद्धिते मलयगिरीय व्याकरणम् इदं न संपूर्ण संप्राप्यते ।
तद्धितप्रकरणे यत् यत् यत्र खण्डितम् तत् तत् सर्वत्र तत्र शाकटायन-सिद्धहेमादिव्याकरणानां सहायतया [ ] इत्यांकारके चिह्न सुसंहितं कृतम् इति ।
__ सूत्राणाम् अङ्का अपि संपादकेन स्वबुद्धया विहिताः । पुस्तकस्य खण्डितत्वेन न तत्र क्रमशः संपूर्णा अङ्का लब्धा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org