________________
कृदन्ते षष्ठः पादः
निमूलात् कषः । ४८ । 'निमूल'शब्दात् कर्मणः परात् कषेः तस्मिन् धातौ उपपदे णम् प्रत्ययो वा भवति । निमूलकाषं कषति ॥ ४८ ॥
समूलात् हनश्च । ४९ । समूलात् कर्मणः परात् हन्तेः कषेश्च तस्मिन् एव धातौ उपपदे णम् प्रत्ययो वा भवति । समूलघातं हन्ति-समूलं हन्ति इत्यर्थः । समूलकाष कषति ।। ४९ ॥
करणात् । ५०। करणवाचिनः परात् हन्तेः तस्मिन् धातौ उपपदे णम् प्रत्ययो वा भवति ।
पाणिघातं हन्ति-पाणिना हन्ति इत्यर्थः । हिंसात् अपि परत्वात् अयमेव विधिः । अस्मिन् समासः नित्यः । स एव धातुः उपपदं भवति-असिघातं हन्ति शत्रून् ॥ ५० ॥
स्व-स्नेहनार्थात् पुष-पिषः । ५१ । 'स्व'अर्थात् 'स्नेहन'अर्थात् च यथासंख्यं पुषः पिषेश्च परः णम् प्रत्ययो वा भवति तस्मिन् एव धातौ उपपदे ।
स्वपोषं पुष्णाति । आत्मपोषं पुष्णाति । मातृपोषं पुष्णाति । रैपोषं पुष्णाति । उदपेष पिनष्टि । घृतपेषं पिनष्टि । क्षीरपेषं पिनष्टि ॥ ५१ ।।
'हस्त 'अर्थात् ग्रह-वर्ति-वृतः । ५२। 'हस्त'अर्थात् करणात् परेभ्यः 'ग्रह'आदिभ्यः तेषु एव धातुषु उपपदेषु णम् प्रत्ययो वा भवति । हस्तग्राहं गृह्णाति । हस्तवर्त वर्तते । एवम् करग्राहम् इत्यादि ।। ५२ ।।
बन्धेः नाम्नि । ५३ । बन्ध इति प्रकृतिः नामविशेषणं च । बन्धेः नाम-संज्ञा-तद्विषयात् करणात् परात् बन्धेः तस्मिन् एव धातौ उपपदे णम् वा भवति ।
. अट्टालिकाबन्धं बद्धः । 'अट्टालिका'आदीनि बन्धनैनामधेयानि तैर्बन्धनैर्बद्धः। अन्ये प्रत्ययान्तोपाधेः मन्यन्ते प्रत्ययान्तं च नाम भवति, तेषां मते 'अट्टालिकाबन्धम्' इत्यादीनि बन्धननामानि ॥ ५३ ॥
१. अतः पूर्वम् 'हस्तवतं वर्तयति' इति ज्ञेयम् । २ विशेषप्रकारकबन्धननामधेयानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org