________________
३२४] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
व्यङ्गलोत्कर्षम् व्यङ्गले उत्कर्षम् द्वयङ्गुलेन उत्कर्षम् गण्डिकाः छिनत्ति । समासत्तौकेशग्राहम् केशेषु ग्राहम् केशैः ग्राहम् युध्यन्ते । पक्षे व्यङ्गुलेन उत्कृष्य गण्डिकाः छिनत्ति । केशैः गृहीत्वा युध्यन्ते ॥ ४२ ॥
कर्तुः जीव-पुरुषात् नश-वहेः तस्मिन् । ४३ । 'जीव'शब्दात् 'पुरुष'शब्दात् च परात् यथासंख्यं नशेः वहेश्च तस्मिन् धातौ उपपदे णम् प्रत्ययो वा भवति ।
जीवनाशं नश्यति-जीवन् नश्यति इत्यर्थः । पुरुषवाहं वहति-प्रेष्यो भूत्वा पुरुषो वहति इत्यर्थः पक्षे यथायोगं घञादयः । जीवस्य नाशं नश्यति । प्रकृति-उपपदयोस्तु क्रियाभेदात् प्राक्कालता नास्ति इति न 'क्त्वा'प्रसङ्गः । कर्तुः इति किम् ? जीवेन नष्टः । पुरुषं वहति ॥ ४३ ॥
ऊर्ध्वात् पूरि-शुषेः । ४४ । 'ऊर्ध्व'शब्दात् कर्तुः परात् पूरेः शुषेश्च तस्मिन् धातौ उपपदे णम् वा भवति । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वशोषं शुष्यति-ऊर्ध्वं शुष्यति इत्यर्थः ॥ ४४ ॥
कर्मणश्च उपमाने । ४५। कर्मणः कर्तुः परात् धातोः तस्मिन् धातौ उपपदे णम् प्रत्ययो वा भवति उपमाने गम्यमाने ।
घृतनिधायं निहितः-घृतम् इव इत्यर्थः । नास्तिकनाशं नष्टः-नास्तिक इव नष्टः ॥ ४५ ॥
शुष्क-चूर्ण-रूक्षात् पिषः । ४६ । 'शुष्क'आदिभ्यः परात् पिषेः तस्मिन् एव धातौ उपपदे णम् प्रत्ययो वा भवति ।
शुष्कपेषं पिनष्टि-शुष्कं पिनष्टि इत्यर्थः । एवम् चूर्णपेषं पिनष्टि । रूक्षपेषं पिनष्टि ॥ ४६ ॥
कृञ्-ग्रहः अकृत-जीवात् । ४७। 'अकृत'-'जीव'शब्दाभ्यां परात् यथासंख्यं कृञः ग्रहेश्च तस्मिन् एव धातौ उपपदे णम् प्रत्ययो वा भवति ।
अंकृतकारं करोति-अकृतं करोति इत्यर्थः । जीवनाहं गृह्णाति-जीवं गृह्णाति इत्यर्थः ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org