________________
कृदन्ते षष्ठः पादः
[ ३२३
अक्षिणी निकाणं [अक्षिनिकाणं] जल्पति । परिक्लेश्येन - उरः प्रतिपेषं उरांसि प्रतिपेषं युध्यन्ते । पक्षे - अक्षिगी निकाण्य जल्पति । उरांसि प्रतिपिष्य युध्यन्ते । स्वाङ्गेन इति किम् ? गडुम् उपपीड्य तिष्ठति । अध्रुव परिक्लेश्येन इति किम् ? शिरः उत्क्षिप्य वक्ति ॥ ३७॥ कालेन तृषि अस्वः क्रियान्तरे । ३८ !
क्रियाम् अन्तरयति इति क्रियान्तरः - व्यवधायकतया क्रियामध्यवर्ती तस्मिन् अर्थे वर्तमाने तृषेः अस्यतेश्च कालवाचिना द्वितीयान्तेन णम् प्रत्ययो वा भवति ।
हर्षं गावः पिबन्ति, द्वयहं तर्षं गावः पिबन्ति । द्वयहात्यासं गावः पिबन्ति, द्वयहम् अत्यासं गावः पिबन्ति । तृषि - अस्वः इति किम् ? द्वयहम् उपोष्य भुङ्क्ते । कालेन इति किम् ? योजनं तर्षित्वा गावः पिबन्ति । क्रियान्तरे इति किम् ? अहः अत्यस्य इषून् गतः ॥ ३८॥ तृतीयया उपदंशः । ३९ ।
'उप' पूर्वात् दंशेः तुल्यकर्तृकार्थात् तृतीयान्तेन योगे णम् प्रत्ययो वा भवति । मूलकेन उपदेशं मूलकोपदेशं भुङ्क्ते । पक्षे मूलकेन उपदश्य भुङ्क्ते । मूलकम् उपदंशेः कर्म भुजेस्तु करणम् ॥ ३९ ॥
हिंसार्थात् तुल्याप्यात् । ४० ।
येन धावन्तरेण तुल्यकर्तृकः तेन तुल्याप्यात् धातोः हिंसार्थात् तृतीयान्तेन योगे म् प्रत्ययो वा भवति ।
दण्डेन उपघातं दण्डोपघातं गाः कलयति । पक्षे दण्डेन उपहत्य गाः कलयति । हिंसार्थात् इति किम् ? चन्दनेन अनुलिप्य चैत्र परिधापयति । तुल्याप्यात् इति किम् ? दण्डेन आहत्य चौरं गोपालकः गाः खेटयति ॥ ४७ ॥
सप्तम्या अपि च उपात् पीड - रुष-कर्षः । ४१ ।
सप्तम्या अपि शब्दात् तृतीयया च योगे उपात् परेभ्यः 'पीड' आदिभ्यः तुल्यकर्तृकार्थेभ्यः : णम् प्रत्ययो वा भवति ।
पार्श्वोपपीडम् पार्श्वयोः उपपीडं शेते । व्रजोपरोधम् व्रजेन उपरोधं गाः स्थापयति । पाण्युपकर्षम् पाणौ उपकर्षम् पाणिना उपकर्षं धानाः गृह्णाति । उपात् इति किम् ? पार्श्वेन निपीड्य तिष्ठति । ‘च’शब्दः उत्तरत्र उभयोः अनुकर्षणार्थः ॥ ४१ ॥
प्रमाण- समासत्त्योः । ४२ ।
आयाममानं प्रमाणम् । समासत्तिः सरम्भपूर्वकः सन्निकर्षः । तयोः गम्यमानयोः तृतीयान्तेन साम्यन्तेन च योगे तुल्यकर्तृकार्थात् धातोः णम् प्रत्ययो वा भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org