________________
३२२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
स्वरायां पञ्चम्याम् । ३३ । त्वरायां गम्यमानायां पञ्चम्यन्तेन योगे तुल्यकर्तृकात् धातोः परः णम् वा भवति ।
शय्योत्थाय शय्याया उत्थाय धावांत-एवंनाम त्वरा यावत् अन्यद् विहाय शयनात् उत्थानमात्रापेक्षो धावति । त्वरायाम् इति किम् ? आसनात् उत्थाय धावति ॥३३॥
द्वितीयया । ३४ । त्वरायां गम्यमानायां द्वितीयान्तेन योगे तुल्यकर्तृकार्थात् धातोः णम् प्रत्ययो वा भवति । लोष्ठग्राहम् लोष्टान् ग्राहं युध्यन्ते । योगविभाग उत्तरार्थः ।। ३४ ॥
ग्रह-आदिशः नाम्ना । ३८ । 'नाम'शब्देन योगे तुल्यकर्तृकार्थात् ग्रहेः आदिशश्च परः णम् प्रत्ययो वा भवति ।
नामग्राहम् नामनी ग्राहम् आचष्टे | नामआदेशम् नामानि आदेशं दत्ते । पक्षे नाम गृहीत्वा आचष्टे ।। ३५ ॥
विशि-पति-पदि-स्कन्दः वीप्सा-आभीक्ष्ण्ये । ३६ । 'विश'आदिभ्यः द्वितीयान्तेन योगे वीप्सायाम् आभीक्ष्ण्ये च गम्यमाने णम् प्रत्ययो वा भबति ।
गेहंगेहम् अनुप्रवेशम् गेहानुप्रवेशम् आस्ते । गेहम् अनुप्रवेशम् अनुप्रवेशम् गेहानुप्रवेशम् आस्ते । गेहंगेहम् अनुप्रपातम् गेहानुप्रपातम् आस्ते । गेहम् अनुप्रपातम् अनुप्रपातम् गेहानुप्रपातम् आस्ते । गेहंगेहम् अनुप्रपादम् गेहानुप्रपादम् आस्ते । गेहम् अनुप्रपादम् अनुप्रपादम् गेहानुप्रपादम् आस्ते । गेहंगेहम् अवस्कन्दम् गेहावस्कन्दम् आस्ते । गेहम् अवस्कन्दम् अवस्कन्दम् गेहावस्कन्दम् आस्ते । असमासे द्विवचनम् , समासे समासः तत्र रूढः इति न भवति । वीप्सायां द्रव्यस्य । आभीक्ष्ण्ये क्रियायाः । आभीक्ष्ण्ये 'णम्'वचनं समासार्थम् ख्णमि हि स न स्यात् । पक्षे गेहंगेहम् अनुप्रविश्य आस्ते । गेहम् अनुप्रविश्य अनुप्रविश्य आस्ते ।। ३६ ॥
स्वाङ्गेन अध्रुव-परिक्लेश्येन । ३७ । यस्मिन् छिन्ने भिन्ने वा प्राणी न म्रियते तद् अध्रुवम् , सर्वतः बाध्यमानं परिक्लेश्यम् । स्वाङ्गेन अध्रुवेण परिक्लेश्येन द्वितीयान्तेन योगे धातोः तुल्यकर्तृकार्थात् परः णम् प्रत्ययो भवति वा । १. द्विवचनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org