________________
कृदन्ते षष्ठः पादः
[ ३२१ विदि-दृशिभ्यः कात्न्ये णम् । २८ । आप्यात् पराभ्यां विदि-दृशिभ्यां तुल्यकर्तृके प्राक्काले अर्थे वर्तमानाभ्यां, कात्स्न्र्ये गम्यमाने णम् प्रत्ययो वा भवति ।
अतिथिवेदं भोजयति । कन्यादर्श वरयति। बहुवचनात् 'विद्यति'वर्जाः त्रयः अपि विदयः गृह्यन्ते, विद्यतिस्तु अकर्मकः । कात्स्न्ये इति किम् ? अतिथिं विदित्वा भोजयति ॥ २८ ॥
__ यावतः जीव-विन्दात् । २९ । 'यावत्'शब्दात् आप्यात् पराभ्याम् [जीव विन्द इति आभ्यां तुल्यकर्तृकाभ्यां परः णम् प्रत्ययो वा भवति [ कार्ये गम्यमाने ।
यावजीवम् अधीते यावत् जीवति तावत् अधीते इत्यर्थः । यावद्वेदं गृह्णातियावद् लभते तावत् सर्वं गृह्णाति इत्यर्थः ॥ २९ ॥
चर्म-उदरात् पूरेः । ३० । चर्मन्-उदराभ्यां कर्मभ्यां पूरयतेः प्राक्काले तुल्यकर्तृके अर्थे णम् वा भवति ।
चर्मपूरम् आस्ते, चर्म पूरयित्वा आस्ते इत्यर्थः । उदरपूरं शेते-उदरं पूरयित्वा शेते इत्यर्थः ॥ ३० ॥
वृष्टीयत्त्वे अस्य 'ऊ'लुग वा । ३१ । आप्यात् परात् पूरयतेः वृष्टीयत्त्वे गम्यमाने णम् प्रत्ययो वा भवति, अस्य च पूरेः ऊकारस्य वा लुक ।
गोष्पदपूरं वृष्टो देवः, गोष्पदप्रं वृष्टो देवः । 'गोष्पदप्रम्' इति प्रादेः अंडा केन च क्रियाविशेषणं सिध्यति, ‘गोष्पदैपूरम्'इति अणि । एवम् 'यावज्जीवम्' इत्यादयोऽपि । तत्र सूचनम् ‘गोष्पदप्रंतराम्' इत्यादिअर्थम् अन्यथा 'गोष्पदप्रतरम्' इत्यायेव स्यात् ॥ ३१ ॥
'चेल 'अर्थात् क्नोपेः । ३२। 'चेल अर्थात् आप्यात् परात् क्नोपयते: तुल्यकर्तृकार्थात् णम् प्रत्ययो भवति वा ।
चेलक्नोपं वृष्टो देवः-यावता चेलं समुन्नं भवति तावता वृष्टः इत्यर्थः ॥ ३२॥
१. 'प्रा' इत्यादिधातोः अर्थात् 'गोष्पदप्रम्' इति प्रयोगः 'प्रा' इत्यस्मात् धातोः प्रत्ययेन । २. 'अट' प्रत्ययेन 'क' प्रत्ययेन च-इत्यर्थः । ३. गोष्पदं पूरयति इति गोष्पदपूरम् इति प्रयोगः अणि प्रत्यये सति सिध्यति इति आशयः । ४. 'णम् 'प्रत्ययान्तस्य अव्ययत्वेन तराम तमाम् आद्यर्थम् 'प्रम्' इत्येवम् अनुस्वारश्रवणार्थं च 'णम्' विधानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org