________________
३२० । आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
पूर्व भोजं व्रजति, पूर्वं भुक्त्वा व्रजति । अग्रे भोजम् , अग्रे भुक्त्वा । प्रथमं भोजम् , प्रथमं भुक्त्वा व्रजति । 'पूर्वं यतः भुज्यते ततः प्रजति'इति 'पूर्व'शब्दः अत्र प्राकाले न उप ?]पदम् । पूर्व भुक्त्वा ततः व्रजति इति वयापेक्षे प्राक्काले क्त्वा । तच्छब्दापेक्षे 'पूर्व'शब्दः ॥ २३ ॥
अन्यथा-एवम्-कथम्-इत्थमः कृतः अनर्थकात् । २४ ।
'अन्यथा'आदिभ्यः परात् तुल्यकर्तृकार्थात् कृञः अनर्थकात् ख्णम् प्रत्ययो वा भवति । आनर्थक्यं करोतेः 'अन्यथा'आदिभ्यः पृथगर्थाभावात् । यत्र हि भुज्यादौ 'अन्यथा'आदयः प्रकारम् आचक्षते तत्र कृञ् अपि 'इति'विशेष्यमाणः तमेव प्रकारम् आचष्टे ।
अन्यथाकारं भुङ्क्ते । एवंकारं भुङ्क्ते । कथंकारं भुङ्क्ते । इत्थंकारं भुङ्क्ते । पक्षे अन्यथा कृत्वा इत्यादि । अनर्थकात् इति किम् ? अन्यथा कृत्वा शिरः भुङ्क्ते'अन्यथा'शब्दः शिरःप्रकारे कृञश्च शिरः कर्म तत् न कृञा विना भवति ॥ २४ ॥
यथा-तथात् ईप्रित्युक्तौ । २५ । यथा-तथाभ्यां परात् कृञः तुल्यकर्तृके अनर्थकात् परः ख्णम् प्रत्ययो वा भवति, ईjया प्रतिवचने ।
कथं भोक्ष्यसे : इति पृष्टः असूयया तं प्रति आह-याकारम् अहं भोक्ये तथा त्वं द्रक्ष्यसि ॥ २५ ॥
आप्यात् आक्रोशे । २६ । ___ आप्यात् परात् तुल्यकर्तृकात् 'कृञ्' धातोः ख्णम् प्रत्ययो वा भवति आक्रोशे गम्यमाने ।
चौरंकारम् आक्रोशति-'चौरः असि'इति आक्रोशति इत्यर्थः । आक्रोशे इति किम् ? चौरं कृत्वा हेतुभिः कथयति ॥ २६ ॥
'स्वादु'अर्थात् अदीर्घात् । २७ । ['स्वादु'अर्थात् अदीर्घात् । आप्यात् परात् तुल्यकर्तृकार्थात् कृञः ख्णम् प्रत्ययो वा भवति ।
स्वादुंकारं भुङ्क्ते । मृष्टंकारं भुङ्क्ते । पक्षे स्वादं कृत्वा । अदीर्घात् इति किम् ? स्वाद्वीं कृत्वा यवागू भुङ्क्ते ॥ २७ ॥
१. “ व्यापारान्तरापेक्षे 'पूर्व' शब्दः " ४।४।१४५ शा० अ० । २. पृष्टे अ०-पू० । ३. अतः पू० प्रतिः विच्छिन्ना अतः इत आरभ्य केवलं पा० प्रतिः प्रमाणम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org