________________
कृदन्ते षष्ठः पादः
[ ३१९ पर्वतम् अतिक्रम्य नदी। नदीम् अप्राप्य पर्वतः । नदी-पर्वतयोः पर-अपरत्वमात्रेण व्यवस्थामात्रं प्रतीयते, न 'अस्ति' 'प्राप्यते' इति द्वितीया क्रिया इति वचनम् । पक्षे पर्वतातिक्रमेण नदी । नद्यप्राप्त्या पर्वतः ॥ १९ ॥
___ मेङः तुल्यकतके । २० । तुल्यः धात्वर्थान्तरेण कर्ता यस्य तस्मिन् अर्थे वर्तमानात् मेङः धातोः क्त्वा प्रत्ययो वा भवति ।
अपमित्य याचते, पक्षे अपमातुं याचते । प्राक्काले प्राप्ते अप्राक्काले अयं क्त्वा अत एव मेङः क्त्वायां याचेः क्त्वा न भवति ।। २० ॥
प्राकाले । २१ । अपरकालेन तुल्यकर्तृके प्राक्काले अर्थे वर्तमानात् धातोः क्त्वा प्रत्ययो वा भवति ।
भुक्त्वा व्रजति । आसित्वा भुङ्क्ते । पक्षे आस्यते भोक्तुम् । मुखं व्यादाय स्वपिति, अक्षिणी निमील्य हसति इति व्यादानादिउत्तरकालभाविस्वापाद्यपेक्षया प्रत्ययःव्यादाय हि उत्तरकालं स्वपिति, निमील्य हसति। 'येत् भुज्यते ततः गच्छति' इति भुज्यते] पदं न प्राक्काले, यत् तद्भयां च क्रमप्रतीतिः । 'यद् भुक्त्वा व्रजति अधीते एव ततः परम्' इति 'बज्या अपेक्षया प्राकाले क्त्वा, यत्-तद्भयां तु व्रज्या-अध्ययनयोः क्रमप्रतीतिः । 'प्राक्काले' इति एतत् उत्तरत्र अवस्थितम् अधिकृतं वेदितव्यम् । अभिधानतश्च व्यवस्था ॥२१॥
अभीक्षणे ख्णम् । २२ । अभीक्ष्णे अपरकालेन तुल्यकर्तृके प्राक्काले अर्थे वर्तमानात् धातोः ख्णम् प्रत्ययो वा भवति ।
भोज भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति । 'पुनः पुनः यद् भुज्यते भुज्यते ततः वजति' इति यत्-तद्भया क्रमस्य प्रतीतिः, 'पुनः पुनः'इत्यतः आभीक्ष्णस्य, 'भुज्यते' इति द्विरुक्त्या अत्राऽविच्छेदः प्रतीयते, न आभीक्षण्य-प्राक्कालौ ॥ २२ ॥
पूर्व-अग्रे-प्रथमे । २३ । एषु उपपदेषु परकालेन तुल्यकर्तृके प्राक्काले अर्थे वर्तमानात् धातोः ख्णम् प्रत्ययो भवति वा ।
१. ' 'यद् भुज्यते ततो गच्छति, ''यद् अधीते ततः शेते' इत्यत्र 'भुज्यते' ' अभीते' .इति न पदं प्राक्काले, यत्-तद्भयां क्रमप्रतीतेः इति न भवति"-४।४।१४४ शा. अ.। २. ' भुज्यते भुज्यते इति च द्विरुक्ती अविच्छेदः प्रतीयते '-४१४।१४५ शा० अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org