________________
३१८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
दुःशयम् सुशयम् ईषच्छयं भवता । दुष्करः सुकरः ईषत्करः कटो भवता । कृच्छ्अकृच्छ्रे इति किम् ? ईषल्लभ्यम्-अल्पं लभ्यम् इत्यर्थः ॥ १४ ॥
कर्तृ-आप्यात् भू-कृतः 'च्चि 'अर्थे । १५ । _ 'कृच्छ'-'अकृच्छ'अर्थेभ्यः दुः-सु-ईषद्भयः परात् कर्तृवाचिनः कर्मवाचिनश्च 'च्चि'अर्थे वर्तमानात् यथासंख्यं परात् भवते: कृञश्च परः खल् प्रत्ययो भवति ।
दुराढयंभवम् स्वाढ्यंभवम् ईषदाढयंभवं भवता । दुराढ्यंकरः स्वाढयंकरः ईषदाढयंकरः चैत्रः भवता । च्चौ इति किम् ? दुःखेन आढयः क्रियते ॥ १५ ॥
आतः अनः । १६ । 'कृच्छु'-'अकृच्छ्र'अर्थेभ्यः दुः-सु-ईषद्भयः परात् आकारान्तात् धातोः 'अन'प्रत्ययो भवति । दुर्लानम् सुग्लानम् ईषद्ग्लानम् भवता । दुर्दाना सुदाना ईषदाना गौः ॥ १६॥
धषि-मृषि-युधि-शासू-दृशः । १७ । 'कृच्छ्र-'अकृच्छु'अर्थेभ्यः दुः-सु-ईषद्भ्यः परेभ्यः एभ्यः 'अन' प्रत्ययो भवति ।
दुर्धर्षणः । दुर्मर्षणः । दुर्योधनः । सुयोधनः । दुःशासनः । दुर्दर्शनः । योगविभागात् अयम् अनित्यः ज्ञेयः । तेन इदम् उपपन्नम्-“दुर्दशों हि राजा कार्याकार्यविपर्यासम् आसन्नैः कार्यते" [कौटिलीयअर्थशास्त्रे अधि० १। अध्या० १९। प्रकरण १६ पृ० ३८ पङ्कित१८--१९ ] इत्यादि ॥ १७ ॥
वा निषेधे अलम-खल्वाः क्त्वा । १८ । निषेधार्थयोः अलम् खल्वोः उपपदयोः धातोः क्त्वा प्रत्ययो भवति ।
अलं कृत्वा। अलं बाले ! रुदित्वा। अलं बाले ! रुदितेन। अनेकद्वीपा हि वसुमती, महान् प्रयोगविषयः, नियतविषयाश्च शब्दाः भवन्ति इति क्त्वाविषये 'खलु'शब्दः निषेधार्थः द्रष्टव्यः । निषेधे इति किम् ? अलंकारः । सिद्धं खलु ॥ १८ ॥
पर-अवरे । १९। परे अवरे च गम्यमाने धातोः क्त्वा प्रत्ययो वा भवति ।
१. श्रीश्यामशास्त्रिसंपादितम् कौटि० अथशास्त्रम् अत्र ग्राह्यम् । एतद् वाक्यं राजप्रणिधिप्रकरणे विद्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org