________________
कृदन्ते षष्ठः पादः
[ ३१७ संचरः । कषः । आकषः । बकः । भगः । खलः । वहः । व्रजः । व्यजः । आपणः । निगमः ॥ ६ ॥
व्यञ्जनात् घञ् । ७। व्यञ्जनान्तात् धातोः करण-आधारयोः मुनाम्नि घञ् प्रत्ययो भवति । लेखः । वेगः । आरामः । प्रासादः । बहुलाधिकारात् इह न भवति-दोहनः ॥७॥
तृ-स्त्रः अवात् । ८। अवात् पराभ्याम् आभ्यां करण-आधारयोः पुनाम्नि घञ् प्रत्ययो भवति । अवतारः । अवस्तारः ॥ ८ ॥
समश्च हृ: ।९। समः अवात् च परात् हृञः करण-आधारयोः पुनाम्नि घञ् प्रत्ययो भवति ।
संहारः । अवहारः ॥ ९ ॥ दार-जार-अध्याय-न्याय-उद्याव-आनाय-आधार-अवायाः । १० । एते करण-आधारयोः पुनाम्नि घञ्प्रत्यया निपात्यन्ते । दाराः । जारः । अध्यायः ।न्यायः । उद्यावः । आनायः । आधारः । अवायः॥१०॥
उदङ्कः अतोये । ११ । 'उत्'पूर्वात् अञ्चेः करण-आधारयोः पुनाम्नि घञ् निपात्यते, तोयविषयश्चेत् धात्वर्था न स्यात् । तैलोदः । घृतोदङ्कः । अतोये इति किम् ? उदकोदञ्चनः ॥ ११ ॥
खनः ड-डर-इक-इकवक-घाश्च । १२। खनेः करण-आधारयोः पुनाम्नि 'ड'आदयः प्रत्यया भवन्ति, चकारात् घञ् च । आखः । आखरः । आखनिकः । आखनिकवकः । आखनः । आखानः ॥ १२ ॥
इ-कि-श्तिपः स्वरूप-अर्थे । १३ ।। धातोः स्वरूपे अर्थे च इ-कि-श्तिपः प्रत्यया भवन्ति । भञ्जिः । क्षुधिः । वेत्तिः । अर्थ-यजेः अङ्गानि । भुजिः क्रियते ॥ १३ ॥
दुः-सु-ईषतः कृच्छ्र-अकृच्छाऽथे खल् । १४। कृच्छ्रवृत्ते: दुरः अकृच्छ्रवृत्तिभ्यां सु-ईषद्भयां परात् धातोः खल् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org