________________
कृदन्ते षष्ठः पादः क्लीबे भावे क्तः । १ ।
धातोः क्लीबे भावे 'क्त' प्रत्ययो भवति । हसितम् । शयितम् ॥ १ ॥
Ci
बेभावे अनट् प्रत्ययो भवति ।
हसनम् | शयनम् ॥ २ ॥
अनट् । २ ।
' रमि 'आदिभ्यः कर्तरि । ३ ।
एभ्यः कर्तरि 'अनट्' प्रत्ययो भवति ।
रमणी । कमनी ॥ ३
॥
करण - आधारे । ४।
धातोः करणे आधारे च अनट् प्रत्ययो भवति ।
इध्मत्रश्वनः । पलाशशातनः । आधारे - सक्तुधानी । ' पयःपानं सुखम् ' 'ओदनभोजनं सुखम् ' इत्यत्र 'पयसः पानन्' इति असमासोऽपि दृश्यते इति “कर्मणा येन संस्पर्शात् कर्तुः शरीरसुखम्” [ काशिका ३|३|११६] इति न आरभ्यते ॥ ४ ॥
Jain Education International
पुंनाम्नि घः । ५ ।
धातोः करणे आधारे च पुंनाम्नि 'घ' प्रत्ययो भवति ?
प्रच्छदः । उरच्छदः । आधारे - आकरः । आलवः । 'पुं' ग्रहणम् किम् ? विचयनी । वाधिकारात् इह न भवति । दोहनः । प्रसाधनः ॥ ५ ॥
गोचर - संचर - कष- आकष- बक- भग-खल-वह-व्रज- व्यज- आपणनिगमम् । ६ ।
एते करण - आधारयोः पुंनाम्नि निपात्यन्ते । गावः चरन्ति अस्मिन् इति गोचरः ।
१ पाणिनीयतन्त्रे ' पयःपानम्' इत्यादिकानां नित्यसमासरूपाणां प्रयोगाणां निष्पत्तये ३।३।११६ कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् " इति सूत्रं निर्मितम् । आचार्यमलयगिरिस्तु 'कथयति - ते नित्यसमासरूपाः अतः ते अनेनैव सेत्स्यन्ति ।
For Private & Personal Use Only
www.jainelibrary.org