________________
कृदन्ते पञ्चमः पादः
एभ्यः अकर्तरि स्त्रियां क्यप् प्रत्ययो भवति ।
समज्या । निषद्या । निपत्या । निपद्या | मन्या । विद्या । इत्या । सुया । शय्या |
मतिः । समितिः । आसुतिः इति बहुलाधिकारात् ॥ ८४ ॥
कृञः वा शश्च । ८५ । कृञः अकर्तरि स्त्रियां क्यप् शश्व प्रत्ययो भवति । क्रिया । कृत्या | पक्षे कृतिः ॥ ८५ ॥ क्तिः । ८६ ।
धातोः अकर्तरि स्त्रियां 'क्ति' प्रत्ययो भवति ।
सृष्टिः। दृष्टिः । कृतिः । वृत्ति: । स्त्रियाम् इति किम् ? सर्गः । चयः ॥ ८६ ॥ स्तु-सु-यज्- इषः करणे । ८७ ।
एभ्यः अकर्तरि करणे स्त्रियां 'क्ति' प्रत्ययो भवति ।
स्तुतिः । स्रुतिः । यजेः इष्टि: । इषेः अपि इष्टिः ॥ ८७ ॥ 'लभू' आदिभ्यः । ८८ ।
एभ्यः अकर्तरि स्त्रियां 'क्ति' प्रत्ययो भवति ।
[ ३१५
लब्धिः । निकुचितिः । अर्देः अर्तिः । षित्वात् अङ् अपि भवति - लम्भा ॥ ८८ ॥ 'संपद्' आदिभ्यः क्विप् च । ८९ ।
'संपद्’आदिभ्यः अकर्तरि स्त्रियां क्विप् क्तिश्च प्रत्ययो भवति ।
संपत्, संपत्तिः । विपत्, विपत्तिः । आपत्, आपत्तिः । संवित्, संवित्तिः । 'संपत्' आदयः प्रयोगगम्याः || ८९ ॥
साति-ति-यूति - जूति - कीर्ति - अटाट्या मृगया इच्छा-याञ्श्चा- कृपाः । ९० ।
एते स्त्रियाम् अकर्तरि निपात्यन्ते ।
सातेः क्तौ इत्वाभावः सातिः । हन्तेः हिनोतेर्वा 'हे' भावः हेतिः । यौतेः जवतेश्व दीर्घत्वम् - यूतिः । जूतिः । कीर्तयतेः कीर्तिः । अटतेः यः द्वित्वम्-अटाट्या । मृगयतेः इच्छतेश्च शे शपि च यत्वाभावे मृगया । इच्छा । याचेः नः याञ्चा । कृपेः अङ् संप्रसारणं वा- कृपा ॥ ९० ॥
नञः अनिः शापे । ९१ ।
. नञः परात् धातोः शापे गम्यमाने अकर्तरि स्त्रियाम् अनिः प्रत्ययो भवति । अकरणिस्ते जाल्म ! भूयात् । अप्रयाणिस्ते जाल्म ! भूयात् । नञः इति किम् ? हतिस्ते जाल्म ! भूयात् । शापे इति किम् ? अकृतिः कटस्य ॥ ९१ ॥
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति पञ्चमः पादः समाप्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org