________________
३१४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
नाम्नि । ७६ । धातोः अकर्तरि स्त्रियां नाम्नि वुञ् प्रत्ययो भवति ।
प्रच्छर्दिका, प्रवाहिका एवंनामानो व्याधयः । उद्दालपुष्पभञ्जिका एवंनामा क्रीडा । बहुलाधिकारात् 'अरोचकः' इत्यादौ पुंसि अपि भवति ॥ ७६ ॥
भावे । ७७। धातोः अकर्तरि भावे स्त्रियां वुञ् प्रत्ययो भवति । आसिका । शायिका ।। ७७ ॥
गा-पा-पचः क्तिः । ७८ । 'गा'आदिभ्यः अकर्तरि भावे स्त्रियां 'क्ति'प्रत्ययो भवति । संगीतिः । प्रपीतिः । पक्तिः ॥ ७८ ॥
स्थः वा । ७९ । 'स्था'धातोः अकर्तरि भावे स्त्रियां 'क्ति'प्रत्ययो वा भवति । प्रस्थितिः पक्षे आस्था, व्यवस्था ॥ ७९ ॥
व्यतिहारे त्रः अन्-'ईह'-आदेः । ८० । व्यतिहारः परस्य कृतप्रतिकृतम् , तद्विषयार्थात् धातोः 'ईह'आदिवर्जात् अकर्तरि भावे स्त्रियां 'ञ'प्रत्ययो भवति वा ।
व्यावक्रोशी। व्यावलेखी। 'अ-जिनः अण' [ (?) ] इति 'अण्'अन्तस्य प्रयोगः । पक्षे व्याक्रुष्टिः । अन् ईह'आदेः इति किम् ? व्यतीहा । व्यतीक्षा । स्त्रियाम् इति किम् ? व्यतिपाकः वर्तते ॥ ८० ॥
णि-उक्षः । ८१ । ण्यन्तात् उक्षेश्च व्यतिहारविषयात् अकर्तरि स्त्रियां भावे 'अ' प्रत्ययो भवति । व्यातिचारी । व्यात्युक्षी । नित्यार्थः योगः ॥ ८१ ॥
आसि-अटि-ब्रज-यजः क्यप् । ८२ । एभ्यः अकर्तरि भावे स्त्रियां क्यप् प्रत्ययो भवति । आस्या । अट्या । व्रज्या । इज्या ।। ८२ ॥
भृञः नाम्नि । ८३ । भृञः अकर्तरि भावे स्त्रियां नाम्नि क्यप् प्रत्ययो भवति । भृत्या । नाम्नि इति किम् ? भृतिः । भावे इति किम् ? भार्या ॥ ८३ ॥ समज-निषद-निपत-निपद-मन-विद-इण्-सुङ्-शीङः । ८४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org