________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
आधारात् । ५४ ।
आधारवाचिनः परात् बन्धेः तस्मिन् एव धातौ उपपदे णम् वा भवति । चक्रबन्धं बद्धः - चक्रे बद्धः इत्यर्थः । 'ग्रामे बद्ध:' इत्यादि बहुलाधिकारात् ॥ ५४ ॥ कृञः अव्ययेन अनिष्टोक्तौ क्त्वा णमौ । ५५ । अव्ययेन योगे तुल्यकर्तृकार्थात् कृञः अनिष्टोक्तौ गम्यमानायां क्त्वा णमौ वा भवतः । ब्राह्मण ! पुत्रः ते जातः किं तर्हि वृषल ! नीचैः कारम्, नीचैः वृषल ! कारम्, वृषल ! नीचैः कृत्य, नीचैः वृषल ! कृत्वा आचक्षे । उच्चैर्नाम प्रियम् आख्येयम् । ब्राह्मण ! कन्या ते गर्भिणी जाता किं तर्हि वृषल ! उच्चैः कारम् उच्चैः वृषल ! कारम्, वृषल ! उच्चैः कृत्य, उच्चैः : वृषल ! कृत्वा आचक्षे | नीचैर्नाम अप्रियम् आख्येयम् । अनिष्टोक्तौ इति किम् ? उच्चैः कृत्वा आचष्टे - ब्राह्मण ! पुत्रस्ते जातः । अव्ययेन इति किम् ? ब्राह्मण ! पुत्रस्ते जातः किं तर्हि वृषल ! मन्दं कृत्वा कथयसि । 'क्वा' ग्रहणं समासार्थम् ॥ ५५ ॥ तिर्यचा अपवर्गे । ५६ ।
अपवर्गः समप्तिः, “समाप्तिपूर्वकः पारः" इति एके । “त्यागः " इति अन्ये । तस्मिन् गम्यमाने तिर्यचा अव्ययेन योगे तुल्यकर्तृकार्थात् कृञः क्त्वा णमौ वा भवतः । तिर्यक्कृत्वा, तिर्यक्कृत्य, तिर्यक्कारम् आस्ते । अपवर्गे इति किम् ? तिर्यक् कृत्वा काष्ठं गतः ॥ ५६ ॥
३२६ ]
भुवः अन्वचा आनुलोम्ये । ५७ ।
अन्वचा अव्ययेन योगे तुल्यकर्तृकार्थात् भवतेः क्त्वा णमो वा भवतः अन्वग्भूत्वा, अन्वग्भूय, अन्वग्भावं तिष्ठति ॥ ५७ ॥
तूष्णीमा । ५८ ।
तूष्णीमा अव्ययेन योगे तुल्यकर्तृकार्थात् भवतेः क्त्वा णमो वा भवतः । तूष्णीं भूत्वा तूष्णींभूय, तूष्णींभावं तिष्ठन्ति ॥ ५८ ॥
स्वाङ्गतः- च्व्यर्थ-धाऽर्थ - नाना- विना कृञश्च । ५९ । तसन्तेन स्वाङ्गेन, व्यर्थवृत्तिभिः धाऽर्थप्रत्ययान्तैः अव्ययैः नाना-विनाभ्यां च योगे तुल्यकर्तृकार्थात् भवतेः कृञश्च परौ क्त्वा णमौ वा भवतः ।
मुखतः भूत्वा, मुखतोभूय, मुखतोभावम् आस्ते । नाना भूत्वा, नानाभूय, नानाभावं
१. प्रत्ययाभावः ।
२. आ• हेमचन्द्रः सर्वान् अर्थान् स्वीकरोति - ५।४।८५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org