SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ कृदन्ते पञ्चमः पादः [ ३११ व्यधः । जपः । मदः । अनुपसर्गात् इति किम् ? प्रत्याधः । उपजापः ।। उन्मादः ॥ ५६ ॥ विच्छेः नङ् । ५७। 'विच्छेः अकर्तरि नङ् प्रत्ययो भवति । विश्नः ॥ ५७ ॥ यति-यजि-रक्षि-स्वपि-प्रच्छः नः । ५८ । एभ्यः अकर्तरि नः प्रत्ययो भवति । यत्नः । यज्ञः । रक्ष्णः । स्वप्नः । प्रश्नः ॥ ५८ ॥ उपसर्गात् दः किः । ५९। उपसर्गपूर्वात् 'दा'संज्ञकात् धातोः अकर्तरि 'कि'प्रत्ययो भवति । जलधिः । वालधिः ॥ ५९ ॥ - अन्तद्धिः । ६०।। 'अन्तः'शब्दात् धाञः अकर्तरि 'कि'प्रत्ययो भवति । अन्तर्द्धिः ।। ६०॥ ___ 'टु'इतः अथुः । ६१। 'टु'इत्येतदितः धातोः अकर्तरि अथुः प्रत्ययो भवति । वेपथुः । श्वयथुः । क्षवथुः ॥ ६१ ।।... 'डु'इतः त्रिम तत्कृते । ६२ । 'तेन-धात्वर्थेन-कृतम्' इति अस्मिन् अर्थे 'डु'इत्येतदितः धातोः त्रिमक् प्रत्ययो भवति । कृत्रिमम् । याचित्रिमम् ।। ६२ ।। व्याप्तौ भावे अन-निन् । ६३ । __ व्याप्तिः क्रियया स्वसंबन्धिनः साकल्येन अभिसंबन्धः, तस्यां गम्यमानायां धातोः अकर्तरि भावे 'अन जिन्' प्रत्ययौ भवतः । ... संकुटनम् । सांकौटिनम् एषाम् । व्याप्तौ इति किम् ? संकोटः । 'अन'ग्रहणात् 'असरूपः' [कृ० प्र० पादे सू० १३] इति 'घआदिर्न भवति ॥ ६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy