________________
३१०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
प्रमदः । सम्मदः । हर्षे इति किम् ? प्रमादः । संमादः । निपातनात् उपसर्गान्तराऽऽधिक्ये न भवति । प्रसम्मादः । अभिसम्मादः ॥ ४९ ॥
उप-अभि-नि-विभ्यः हः वश्च उत् । ५० । एभ्यः परात् ह्वयतेः अकर्तरि अल प्रत्ययो भवति, तद्योगे च 'वा'शब्दस्य उकारः ।
उपहवः । अभिवः । निहवः । विहवः । उप-अभि-नि-विभ्यः इति किम् ? संहायः ॥ ५० ॥
आङः युद्धे । ५१ । आङः परात् ह्वयते: अल् प्रत्ययो भवति, तद्योगे च 'वा'शब्दस्य उकारः । आहवः युद्धम् । युद्धे इति किम् ? आह्वायः-आह्वानम् ॥ ५१ ॥
. निपानम् आहावः । ५२ । निपानम् पश्वादिपानार्थम् उदकाधारः तस्मिन् वाच्ये 'आङ् पूर्वात् ह्वयतेः अकर्तरि अल् प्रत्ययो भवति, 'हाव'आदेशश्च निपात्यते । आहावः पशूनाम् । निपानम् इति किम् ? आह्वायः-आह्वानम् ॥ ५२॥
भावे अनुपसर्गात् । ५३ ।। अनुपसर्गात् ह्वयतेः अकर्तरि भावे अल् प्रत्ययो भवति, तद्योगे च 'वा'शब्दस्य उकारः। हवः । भावे इति किम् ? ह्वायः । अनुपसर्गात् इति किम् ? आह्वायः ॥ ५३ ॥
.. हनः वा वधश्च । ५४ । अनुपसर्गात् हन्तेः अल् प्रत्ययो वा भवति, तद्योगे च हनः 'वध'आदेशः । वधः । घातः ।। ५४ ॥
नी-कण-यम-हस-स्वनः । ५५ । एभ्यः अनुपसर्गेभ्यः अकर्तरि वा अल् प्रत्ययो भवति ।
नयः, नायः । कणः, काणः । यमः, यामः । हसः, हासः । स्वनः, स्वानः । अनुपसर्गात् इति किम् ? प्रणयः । प्रकाणः ॥ ५५ ॥
व्यध-जप-मदः । ५६। एभ्यः अनुपसर्गेभ्यः अकर्तरि अल् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org