________________
कृदन्ते पञ्चमः पादः
[ ३०९ घृणोतेः वस्त्रे । ४३ । 'प्र'पूर्वात् वृणोतेः वस्त्रे वाच्ये अकर्तरि अल् प्रत्ययो वा भवति । प्रवरः, प्रवारः । वस्त्रे इति किम् ? प्रवरः यतिः ॥ ४३ ॥
उदः नी-श्रितः । ४४। उदः पराभ्याम् आभ्याम् अकर्तरि अल् प्रत्ययो वा भवति । उन्नयः, उन्नायः । उच्छ्यः , उच्छ्रायः ॥ ४४ ॥
समश्च अजः पशौ । ४५ । 'वा' इति निवृत्तम् । समः उदश्च परात् अजेः अकर्तरि अल् प्रत्ययो भवति पशुविषयश्च धात्वर्थः स्यात् ।
समजः पशूनाम् , उदजः पशूनाम्-प्रेरणम्-इत्यर्थः । समश्च इति किम् ? व्याजः पशूनाम् । पशौ इति किम् ? समाजः । उदाजः ॥ ४५ ॥
ऋत्-इवर्ण-उवर्णात् । ४६ । ऋकारान्तात् इवर्णान्तात् उवर्णान्तात् च धातोः अकर्तरि अल् प्रत्ययो भवति । ऋ-करः । चयः । क्रयः । स्तवः । लवः ॥ ४६ ।।
वश-रण-गमि-वृ-दृ-ग्रहः । ४७। एभ्यः अकर्तरि अल् प्रत्ययो भवति । वशः । रणः । गमः । वरः । दरः । ग्रहः ॥ ४७ ॥
सर्ति-ग्लह-पणः प्रजन-अक्ष-इयत्वे । ४८ । सर्ति-ग्लह-पणिभ्यः यथासंख्यम् प्रजनविषये अक्षविषये च धात्वर्थे इयत्तायां च गम्यमानायाम् अकर्तरि अल् प्रत्ययो भवति ।
गवाम् उपसरः-प्रजनः गर्भग्रहणम् तदर्थ स्त्रीगवीषु पुंगवानाम् उपसरणम् एवम् उच्यते । अक्षस्य ग्लहः-ग्रहणम्-इत्यर्थः । ग्रहे लत्वम् सूत्रे तथानिर्देशात् । मूलकपणः मूलकस्य इयत्तापरिच्छिन्नः संव्यवहार्यः मुष्टिः । प्रजन-अक्ष इयत्त्वे इति किम् ? उपसारः । ग्राहः । पाणः ॥ ४८ ॥
प्रमद-संमदी हर्षे । ४९। - एतौ 'अल् अन्तौ हर्षे निपात्येते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org