________________
३०८ ] आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् ।
उपसर्गपूर्वाभ्याम् आभ्याम् अकर्तरि अल् प्रत्ययो भवति । प्रभवः । संश्रयः । उपसर्गात् इति किम् ? मावः । श्रायः ॥ ३४ ॥
__ अदः । ३५। उपसर्गपूर्वात् अदेः अकर्तरि अल् प्रत्ययो भवति । विघसः ॥ ३५ ॥
नेः णश्च । ३६ । 'नि'पूर्वात् अदेः अकर्तरि अल् चकारात् णश्च प्रत्ययो भवति । निघसः । न्यादः ॥ ३६ ॥
नद-गद-पठ-कण-स्वनः वा । ३७ । 'नि'पूर्वेभ्यः एभ्यः अकर्तरि अल् प्रत्ययो भवति वा ।
निनदः, निनादः । निगदः, निगादः । निपठः, निपाठः । निकणः, निकाणः । निस्वनः, निस्वानः ॥ ३७ ॥
यमः सम्-नि-वि-उपात् । ३८ । सम्-नि-वि-उपेभ्यः परात् यमेः अकर्तरि अल् प्रत्ययो भवति वा । संयमः, संयामः । नियमः, नियामः । वियमः, वियामः । उपयमः, उपयामः ॥३८||
. वैणे कणः । ३९ । वैणार्थात् कणतेः अकर्तरि अल् प्रत्ययो वा भवति । प्रक्वणः प्रकाणः वीणायाः । वैणे इति किम् ? प्रक्वणः शृङ्खलस्य ॥ ३९ ॥
आङः रु-प्लोः । ४०। 'आपूर्वाभ्यां रु-प्लुभ्याम् अकर्तरि अल् प्रत्ययो वा भवति । आरवः, आरावः। आप्लवः । आप्लावः । आङः इति किम् ? आरवः। विप्लवः॥४०॥
वर्षविघ्ने अवात् ग्रहः । ४१ । 'अव'पूर्वात् ग्रहेः अकर्तरि वर्षप्रतिबन्धे वाच्ये अल् प्रत्ययो भवति वा । अवग्रहः अवग्राहः । वर्षविघ्ने इति किम् ? अवग्रहः पदस्य ॥ ४१ ॥
- प्रात् युग्य-तुलासूत्रे । ४२ । 'प्र'पूर्वात् ग्रहः अकर्तरि युग्यसूत्रे तुलासूत्रे च वाच्ये अल् प्रत्ययो वा भवति । प्रग्रहः, प्रग्राहः ॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org