________________
कृदन्ते पञ्चमः पादः
[ ३०७ अध्यायः । उपेत्य अधीयते अस्मात् इति उपाध्यायः । 'उपाध्यायी' इति 'बहु'आदिषु ‘उपाध्याय'शब्दपाठात् अपादाने स्त्रियां 'क्ति'बाधया घञ् ङी च वा भवति ॥२८॥
माने । २९ । मानम् इयत्ता सा च संख्या परिमाणं च । तत्र वर्तमानात् धातोः अकर्तरि घञ् प्रत्ययो भवति । एकः निघासः । द्वौ निघासौ । एकः तन्दुलनिश्चायः ॥ २९ ॥
चिति-उपसमाधान-आवास-देहे चित्रः कश्च आदेः । ३० ।
चीयते इति चितिः-यज्ञे अग्न्याधारः। विप्रकीर्णानाम् उपरि उपरि राशिभावेन करणम् उपसमाधानम् । आवासः निवासः । देहः शरीरम् । एषु अर्थेषु चित्रः अकर्तरि घञ् प्रत्ययो भवति, आदेश्च कः । आकायम् अग्निं विचिन्वीत । गोमयनिकायः । ऋषिनिकायः । कायः शरीरम् ॥३०॥
संघे अनुपरौ । ३१ । न विद्यते कस्यचित् किञ्चिद् उपरि यस्मिन् तस्मिन् संघे वाच्ये चिञः अकर्तरि घञ् प्रत्ययो भवति । आदेश्च कः ।
वैयाकरणनिकायः । संघे इति किम् ? सारसमुच्चयः । अनुपरौ इति किम् ? शूकरनिचयः-शूकराः उपरि उपरि चीयन्ते. इत्यर्थः ।। ३१ ॥.
हस्तप्राप्ये अनुदः अस्तेये । ३२।। हस्तेन उपायान्तरनिरपेक्षं यत् तु प्राप्तुं शक्यं तद्विषयात् चिनोतेः अन् उत्'पूर्वात् अकर्तरि घञ् प्रत्ययो भवति, न चेत् स धात्वर्थः स्तेयविषयः स्यात् । 'हस्तप्राप्ये' इति च प्रत्यासत्तिः उच्यते तेन तन्मात्रविधानम् ।
पुष्पप्रचायः गुल्मात् । हस्तप्राप्ये इति किम् ? पुष्पप्रचयं करोति तरुशिखरे । अस्तेये इति किम् ? पुष्पप्रचयं करोति स्तेयेन । अनुदः इति किम् ? पुष्पोच्चयः । 'हस्तप्राप्यम्' इति मानम् अपि उच्यते तत्र नियमार्थ चेदं विज्ञेयम् 'अस्तेये एव' इति, तेन मानेऽपि स्तेये 'पुष्पाणां प्रचयः' इत्येवं भवति ॥ ३२ ॥
रोः उपसर्गात् । ३३ । उपसर्गपूर्वात् रौतेः अकर्तरि घञ् प्रत्ययो भवति । संरावः । उपसर्गात् इति किम् ? रवः ॥ ३३ ॥
भू-श्रेः अल् । ३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org