________________
३०६ ] आचार्यश्रीमलयगिरिविरचितं शब्हानुशासनम्
उदः । २१ । उदः परात् ग्रहः अकर्तरि घञ् प्रत्ययो भवति । उद्ग्राहः । उदः इति किम् ? ग्रहः । विग्रहः ।। २१ ॥
पू-द्रु-यौतेः। २२ । 'उत्'पूर्वेभ्यः एभ्यः अकर्तरि घञ् प्रत्ययो भवति । उत्पावः । उद्दावः । उद्यावः ॥ २२ ।।
निर्-अभेः पू-ल्वोः । २३ । 'निर्'-'अभि'पूर्वाभ्यां पू-लूभ्याम् अकर्तरि घञ् प्रत्ययो भवति । निष्पावः । अभिलावः ॥ २३ ॥
नियः अवात् । २४ । 'अव'पूर्वात् नियः अकर्तरि घञ् प्रत्ययो भवति । अवनायः ॥ २४ ॥
परेः द्यूते । २५। 'परि'पूर्वात् नियः द्यूतविषयात् अकर्तरि घञ् प्रत्ययो भवति । परिणायेन शारीन् हन्ति । द्यूते इति किम् ? परिणयः कन्यायाः ॥ २५ ॥
भुवः अवज्ञाने वा । २६ । 'परि'पूर्वात् भवतेः 'अवज्ञा'अर्थात् अकर्तरि घञ् प्रत्ययो वा भवति । परिभावः परिभवः चैत्रस्य । अवज्ञाने इति किम् ? समन्तात् भवः परिभवः ॥२६॥
श्रः वायु-वर्ण-निवृते । २७ । 'श'धातोः अकर्तरि वायौ वर्णे निवृते च घञ् प्रत्ययो भवति ।
शारः वायुः । शारः वर्णः -शबलः । निशारः निवृतम्-प्रावरणम् इत्यर्थः । वायु-वर्ण-निवृते इति किम् ? शरः ॥ २७ ॥
इङः । २८ । इङः अकर्तरि घञ् प्रत्ययो भवति ।
१. यद्यपि पा० पू० पुस्तकयोः अयमेव पाठः परन्तु यथासंख्यार्थं 'पू-ल्वः' इति पाठः उचितः । वृत्तौ उदाहरणानि यथासंख्यं दर्शितानि, अत एव इयं संभावना। हैमे यथासंख्यं स्वीकृतम् ५.३१२१ सूत्रे । शाकटायनेऽपि ४४६ सूत्रे, अतः विचारणीयं दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org