SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ कृदन्ते पञ्चमः पादः [ ३०५ मणिप्रस्तारः । अयज्ञे इति किम् ? बर्हिःप्रस्तरः ॥ १३ ॥ द्रु-स्तु-स्रोः । १४ ।। 'प्र'पूर्वेभ्यः एभ्यः अकर्तरि घञ् प्रत्ययो भवति । प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रात् इति किम् ? द्रवः । स्तवः । स्रवः ॥ १४ ॥ ग्रहः लिप्सायाम् । १५ । 'प्र'पूर्वात् ग्रहः अकर्तरि लिप्सायां गम्यमानायां घञ् प्रत्ययो भवति । पात्रप्रपाहेण चरति पिण्डपातार्थी भिक्षुः । लिप्सायाम् इति किम् ? मनसः प्रग्रहः ॥ १५ ॥ नि-अवाभ्याम् शापे । १६ । शापे गम्यमाने 'नि'-'अवा'भ्यां परात् ग्रहः अकर्तरि घञ् प्रत्ययो भवति । निग्राहः अवग्राहः ते जाल्म! भूयात् । शापे इति किम् ? निग्रहः चौरस्य । अवग्रहः पापस्य ॥ १६ ॥ परेः यज्ञे । १७। 'परि'पूर्वात् ग्रहः अकर्तरि यज्ञविषये घञ् प्रत्ययो भवति । उत्तरपरिग्राहः । अधरपरिग्राहः । यज्ञे इति किम् ? अपरः परिग्रहः ॥ १७ ॥ समः स्तोः । १८ । 'सम्'पूर्वात् स्तोतेः अकर्तरि घञ् प्रत्ययो भवति । संस्तावः छन्दोगानाम्-यत्र देशे छन्दोगाः समेत्य स्तुवन्ति स देश: संस्तावः । यज्ञे इति किम् ? संस्तवः अन्यदृष्टेः ॥ १८ ॥ यु-द्रु-दोः । १९। 'सम्'पूर्वेभ्यः एभ्यः अकर्तरि घञ् प्रत्ययो भवति । संयावः । संद्रावः । संदावः । समः इति किम् ? यवः । द्रवः । दवः ॥ १९ ॥ मुष्टौ ग्रहः । २० । 'सम्'पूर्वात् ग्रहः अकर्तरि मुष्टिविषये घञ् प्रत्ययो भवति । मुष्टिः अङ्गुलिसन्निवेश: न परिमाणम् , तत्र 'माने' [कृ० पञ्चमपाद सू० २९] इत्येव सिद्धत्वात् । अहो ! मल्लस्य संग्राहः ॥ २० ॥ १. अन्यदर्शनस्य-अन्यधर्मीयसंप्रदायस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy