SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०४ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । नेः अभ्रेषे । ६। 'नि'पूर्वात् इणः अभ्रेषविषयात् अकर्तरि घञ् प्रत्ययो भवति । भ्रषः स्वरूपात् प्रच्युतिः तदभावः अभ्रेषः । एषः अत्र न्यायः एतद् अत्र साधु इत्यर्थः । अभ्रेषे इति किम् ? न्ययं गतः पापः ॥ ६ ॥ वृक्षः धान्ये । ७। 'नि'पूर्वात् वृञः अकर्तरि घञ् प्रत्ययो भवति, प्रत्ययान्तं चेत्. धान्यविषयं नाम स्यात्। नीवारो नाम व्रीहिः । धान्ये इति किम् ? निवरा कन्या ।। ७ ।। उत्-नेः किरः । ८। उदः नेश्च परात् किरतेः धान्यविषयात् अकर्तरि घञ् प्रत्ययो भवति । उत्कारः । निकारः अन्नस्य । धान्ये इति किम् ? पुष्पोत्करः ॥ ८ ॥ गिरतेः । ९। पृथग्योगात् 'धान्ये' इति निवृत्तम् । उत्-निभ्यां परात् गिरते: अकर्तरि पञ् प्रत्ययो भवति । उद्गारः । निगारः । उत्-नेः इति किम् ? गरः । संगरः ॥ ९ ॥ __ वेः क्षु-स्रोः । १०। 'वि'पूर्वाभ्याम् आभ्याम् अकर्तरि घञ् प्रत्ययो भवति । विक्षावः । विस्रावः ॥ १० ॥ स्त्रः अशब्दे प्रथने । ११ । 'वि'पूर्वात् अशब्दविषये प्रथने वर्तमानात् स्त्रः धातोः अकर्तरि घञ् प्रत्ययो भवति । विस्तारः पटस्य । अशब्दे इति किम् ? अहो! द्वादशाङ्गस्य विस्तरः । प्रथने इति किम् ? विस्तरः तृणस्य ॥ ११ ॥ ... छन्दोनाम्नि । १२ । छन्दोनामविषयात् स्त्रः धातोः अकर्तरि घञ् प्रत्ययो भवति । विष्टारपङ्क्तिः ॥ १२ ॥ प्रात् अयज्ञे । १३ । अयज्ञविषयात् 'प्र'पूर्वात् स्त्रः अकर्तरि घञ् प्रत्ययो भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy