________________
कृदन्ते षञ्चमः पादः
पद-रुजः घन् । १। आभ्यां घञ् प्रत्ययो भवति । पद्यते पादः । रोगः । 'वेशः' 'स्पर्शः' इति लिहादिअचि सिद्धम् ॥ १॥
सतः व्याधि-स्थिर-मत्स्य-बले । २। सर्तेः 'व्याधि'आदिषु कर्तृषु घञ् प्रत्ययो भवति ।
चन्दनस्य सारः-अवयवसं लेषं गतः संहतः चिरस्थायी पदार्थः सारः। अतीसारो व्याधिः । विसारो मत्स्यः । सारो बलम् ॥ २ ॥
अकर्तरि । ३ । कर्तुः अन्यस्मिन् 'कर्म'आदौ कारके भावे च धातोः घञ् प्रत्ययो भवति ।
प्रास्यन्ति तम् इति प्रासः । दास्यते तस्मै दासः । पचनं पाकः । 'कृतः कटः' 'हृतः भारः' इत्यादी अनभिधानात् न भवति । कर्तुः पर्युदासात् इह भावः धात्वर्थात् अन्यः सिद्धताख्यः लिङ्ग-संख्यायोगी द्रष्टव्यः ॥ ३ ॥
वि-उपाभ्याम् शीङ: क्रमे । ४। वेः उपात् च परात् क्रमविषयात् शीङः अकर्तरि घञ् प्रत्ययो भवति ।
तव विशायः । तव राजोपशायः-क्रमप्राप्तशयनम् एवमुच्यते । अन्ये "शयित पर्यायः" [काशिका ३।३।३९] इति आहुः । क्रमे इति किम् ? विशयः । उपशयः ॥४॥
. ... परेः इण् । ५। 'परि'पूर्वात् इणः क्रमविषयार्थात् अकर्तरि घञ् प्रत्ययो भवति ।
तव भोक्तं पर्यायः-क्रमेण पदार्थानां क्रियाभिसंबन्धः पर्यायः । क्रमे इति किम् ? पर्यायः-कालस्य अतिपातः इत्यर्थः ।। ५ ॥
१. सु; व्याधि-स्थिर ०-पू० । 'सुः स्थिर-व्याधि-मत्स्य-बले"-इति शाकटायनीयम् ४।४।२। २. सूत्र निर्देशानुसारेण इदमुदाहरणं प्रथमं भवेत् ।। ३. "व्युपयोः शेतेः पर्याये" इति शाकटायनीयम् सूत्रम्-४।४।४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org