________________
३१२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । षित्-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-श्रद्धा-अन्तर्द्धः अङ् स्त्रियाम् । ६४ ।
षितः 'चिन्ति'आदिभ्यश्च अकर्तरि स्त्रियाम् अङ् प्रत्ययो भवति ।
जष्-जरा । क्षिष-क्षिया । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । श्रद्धा । अन्तर्धा। 'अः प्रत्ययात्' [कृ० पा० ५ सू०६७] इत्येव सिद्धे 'चिन्ति'आदिग्रहणम् 'अन' बाधनार्थम् । केचित् 'भीषि' आदिग्रहणम् अत्र कुर्वन्ति तत् न अन्येषां सम्मतम् ॥ ६४ ॥
उपसर्गात् अः । ६५ उपसर्गपूर्वात् आकारान्तात् धातोः अकर्तरि स्त्रियाम् अङ् प्रत्ययो भवति । उपदा । उपधा । उपसर्गात् इति किम् ? दत्तिः ॥ ६५ ॥
'भिदा 'आदयः । ६६ । 'बहुलम्' इति वर्तते । 'भिदा'आदयः 'अ'अन्ता बहुलम् अकर्तरि स्त्रियाम् साधवः वेदितव्याः ।
भिदा विदारणे, भित्तिः अन्या । छिदा द्वैधीकरणम्, छित्तिः अन्या । विदा विचारणे, वित्ति: अन्या । आरा शस्त्रम् , अतिः अन्या । धारा जलपतने, धृतिः अन्या । गुहा गिरि-ओषध्योः । गूढिः अन्या । एवम् अन्ये अपि । यत् लक्षणेन अनुत्पन्नं तत् सर्व निपातनात् सिद्धम् ।। ६६ ॥
अः प्रत्ययात् । ६७ । प्रत्ययान्तात् धातोः स्त्रियाम् अकर्तरि 'अ'प्रत्ययो भवति । गोपाया । तितिक्षा । दोला। पित्-चिन्ति' ० [कृ० पा० ५ सू०६४] इत्यादिना एकयोगम् अकृत्वा प्रत्ययान्तात् 'अ'प्रत्ययवचनम् 'वा अन-अकस्य' [समास प्रकरणे (?)] इति प्रतिषेधार्थम् ॥६७॥
। क्तेट: गुरोः व्यन्जनात् । ६८।। - ते इट् यस्मात् तस्मात् गुरुमतः व्यञ्जनान्तात् अकर्तरि स्त्रियाम् 'अ'प्रत्ययो भवति ।
कुण्डा । हुण्डा । शिक्षा । भिक्षा । ईहा । ऊहा । चेष्टा । ईडा। सेवा । गुरोः इति किम् ? निपठितिः । निगृहीतिः ॥ ६८ ॥
जागुः यश्च । ६९। जागर्तेः अकर्तरि स्त्रियाम् यः अकारश्च प्रत्ययो भवति । १. 'अस्य सूत्रस्य तथा सप्तषष्टितमस्य सूत्रस्य एकयोगेन कार्ये सिद्ध' इति भावः ।
२. आ० हेमचन्द्रः अत्र सूत्रे “भीषि-भूषि-चिन्ति-पूजि-कथि-" ५।३।१०९। इत्यादिना 'भौषि'आदिकस्य ग्रहणं करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org