________________
कृदन्ते चतुर्थः पादः
[ २९९ 'काल'आदिषु उपपदेषु अवसरे गम्यमाने धातोः तुम् प्रत्ययो भवति । प्राप्तकालतानिमित्तभूतकालोपनतिः-अवसरः ।
कालो भोक्तुम् । वेला भोक्तुम् । समयःभोक्तुम् । अवसरे इति किम् ? "कालः पचति भूतानि" [ महाभारते आदिपर्वणि अध्याय १ श्लो० २७३, २७५ पृ० ७११]॥ ८६ ॥
यदि सप्तमी । ८७।। 'यत्'शब्दप्रयोगे 'काल आदिषु उपपदेषु अवसरे गम्यमाने धातोः सप्तमी भवति ।
कालः यद् भुञ्जीत भवान् । वेला यद् भुञ्जीत भवान् । समयः यद् भुञ्जीत भवान् ॥ ८७ ॥
वर्तमानसमीपे वर्तमानवत् वा । ८८ । वर्तमानस्य समीपे भूते भविष्यति च अर्थे वर्तमानात् धातोः वर्तमाने इव प्रत्ययो भवति वा ।
कदा चैत्र ! आगतोऽसि ? अयम् आगच्छामि, आगच्छन्तमेव मां विद्धि, अयम् आगामुकः अस्मि, पक्षे अयम् आगमम् । कदा चैत्र ! आगमिष्यसि ? अयम् आगच्छामि, आगच्छन्तमेव विद्धि, पक्षे अयम् आगमिष्यामि ॥ ८८ ॥
- भूतवत् च आशंस्ये । ८९ । आप्तुम् इष्टम् आशंस्यम्, तस्मिन् अर्थे वर्तमानात् धातोः वर्तमानवत् भूतवत् च प्रत्ययो भवति वा । आशंस्यस्य भविष्यत्वात् अयम् अतिदेशः ।
उपाध्यायश्चेत् आगच्छति, आगमत् , आगतः पक्षे आगमिष्यति, आगन्ता वा युक्ताः अधीमहे, अध्यगीष्महि । एतद् अधीतम् पक्षे अध्येष्यामहे, अध्येतास्महे । सामान्यस्य अतिदेश: अयम् न विशेषस्य इति परोक्षा-ह्यस्तन्यौ न भवतः । आशंस्ये इति किम् ? उपाध्यायः आगमिष्यति । इह कूपः अस्ति, कूपः अभूत् , कूपः अभवत् , कूपो बभूव, कूपो भविष्यति, कूपो भविता इति तत्कालसत्तापेक्षाः प्रत्ययाः ॥ ८९ ॥
क्षिप्र-आशंसार्थयोः भविष्यन्ती-सप्तम्यौ । ९० । क्षिप्र आशंसार्थयोः उपपदयोः आशंस्यार्थात् धातोः यथासंख्यं भविष्यन्ती-सप्तम्यौ भवतः । १. अयं श्लोकः संपूर्णः एवम्
"कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org