________________
३०० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
__उपाध्यायश्चेत् आगच्छति, आगमत् , आगमिष्यत् , आगन्ता वा क्षिप्रम् आशु सिद्धान्तम् अध्येष्यामहे । आशंसार्थे-उपाध्यायश्चेत् आगच्छति, आगमत् , आगमिष्यति आशंसे संभावये युक्तम् अधीयीय । द्वयोः उपपदयोः सप्तमी एव पाठतः परत्वात्-आशंसे क्षिप्रम् अधीयीय ॥ ९० ॥
अर्हे तृच्-सप्तम्यौ । ९१ । अर्हे कर्तरि धातोः तृच्-सप्तम्यौ भवतः। कन्यायाः वोढा, कन्यां वहेत् भवान् एनाम् अर्हति ॥ ९१ ॥
कृत्यः । ९२। अर्हे कर्तरि धातोः कृत्यप्रत्ययो भवति । भवता खलु कन्या वोढव्या ॥ ९२ ॥
णिन् च आवश्यक-आधमये । ९३ । आवश्यक-आधमर्ययोः गम्यमानयोः णिन् प्रत्ययो भवति कृत्यप्रत्ययश्च । आवश्यकम् अवश्यंभावः । ऋणे अधमः अधमर्णः तद्भावः आधमर्ण्यम् ।
कारी। हारी। अवश्यंकारी। अवश्यंहारी। मयूरव्यंसकादित्वात् समासः । अवश्यकारी । 'अवश्य शब्दोहि अकारान्तोऽपि अस्ति । अवश्यंभव्यः। आधमर्ये-कारी। अवश्यंगेयो गाथानाम् ॥ ९३ ॥
आशीः आशिषि । ९४ । आशिषि गम्यमानायां धातोः आशीर्भवति । . जीयात् ॥ ९४ ॥
पश्चमी । ९५ । आशिषि गम्यमानायां धातोः पञ्चमी भवति । जयतात् ।। ९५॥
- कृत्यश्च शक्तौ । ९६ । शक्तौ च गम्यमानायां धातोः कृत्यः पञ्चमी च भवति ।
भवता खलु भारो वाह्यः, भवान् खलु भारं वहे भवान् हि शक्तः ॥ ९६ ॥
१. 'वहेत्' इति निर्देशेन ज्ञायते यत् अनेन सूत्रेण सप्तमी विधेया न तु पञ्चमी परन्तु वृत्ती तु पञ्चमी एव निर्दिष्टा । अत्र हैमव्याकरणे ५।४।३५ सूत्रे तथा शाकटायनव्याकरणे ४।४।१३५ सूत्रे सप्तमी एव विहिता ततः तेषां मते 'वहेत्' इति साधु पदम् । मलयगिरिः अत्र सुत्रे 'वहेत' इति सप्तम्यन्तम् उदाहरति परन्तु पञ्चमी विदधाति इति वैचित्र्यम्। संभवति अत्र लिपिकारप्रमादः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org