________________
२९८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । खलु भोः ! व्याकरणम् अधीयीय अध्ययै वा उत छन्दांसि ? । प्रार्थने-सिद्धान्तम् अधीयीय अध्ययै वा ॥ ८० ॥
प्रैष-अनुज्ञा-अवसरे कृत्य-पञ्चम्यौ । ८१ । 'प्रेष'आदिषु गम्यमानेषु धातोः कृत्य-पञ्चम्यौ भवतः ।
भवता खलु कटः कार्यः कर्तव्यः, कटं करोतु भवान् । भवान् हि प्रेषितः अनुज्ञातः, अवसरो वा भवतः कटकरणे ॥ ८१ ॥
ससमी च ऊर्ध्वं मुहर्तात् । ८२। 'प्रैष'आदिषु गम्यमानेषु मुहूर्ताद् ऊर्ध्वं वर्तमानेऽर्थे वर्तमानात् धातोः सप्तमी भवति कृत्य-पञ्चम्यौ च ।
ऊर्ध्वं मुहूर्तात् भवान् कटं कुर्यात् करोतु वा, भवता खलु कटः कर्तव्यः करणीयः । भवान् हि प्रेषितः अनुज्ञातः अवसरो वा भवतः कटकरणे ।। ८२ ॥
स्मे पञ्चमी । ८३ । 'ष'आदिषु गम्यमानेषु 'स्म'शब्दे उपपदे ऊर्ध्वमौहूर्तिके अर्थे वर्तमानात् धातोः पञ्चमी भवति । कृत्य-सप्तमीअपवादः । ऊवं मुहूर्तात् कटं करोतु स्म ॥ ८३ ॥
अधीष्टे । ८४। पृथग्योगात् 'ऊर्च मुहूर्तात्' इति निवृत्तम् । 'स्म'शब्दे उपपदे अधीष्टे गम्यमाने धातोः पञ्चमी भवति ।
अङ्ग स्म राजन् ! अणुव्रतानि रक्ष ।। ८४ ॥ समर्थ-अस्त्यर्थ-रभ-लभ-शक-घट-अर्ह-ग्ला-ज्ञा-सह-धृष-क्रमे तुम् ।८५।
'समर्थ'अर्थे, 'अस्ति'अर्थे 'रभ'आदौ च उपपदे धातोः तुम् प्रत्ययो भवति ।
समर्थः भोक्तुम् । पर्याप्तः भोक्तुम् । अस्ति भोक्तुम् । भवति भोक्तुम् । रभते भोक्तुम् । लभते भोक्तुम् । शक्नोति भोक्तुम् । घटते भोक्तुम् । अर्हति भोक्तुम् । ग्लायति भोक्तुम् । जानाति भोक्तुम् । सहते भोक्तुम् । धृष्णोति भोक्तुम् । क्रमते भोक्तुम् । 'शक' ग्रहणं समर्थार्थम् । 'शक्यमेव कर्तुम्' इति हि सौकर्य प्रतीयते । 'शक्त्या अनुभुज्यते' इत्यादौ अनभिधानात् न भवति ॥ ८५ ॥
काल-वेला-समये अवसरे वा । ८६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org