________________
कृदन्ते चतुर्थः पादः
[२९७ इच्छार्थात् वर्तमाने । ७६ । 'इच्छा'अर्थात् धातोः वर्तमाने काले सप्तमी वा भवति ।
इच्छेत् , इच्छति । उश्यात्, वष्टि । ' गर्हे अपि-जात्वोः'-[कृ० पा० ४ सू० ६४] इत्यादौ अपि परत्वात् अयमेव विकल्पः । 'भूते अपि च-' [ कृ० पा० ४ सू० ६१] इति वचनात् अत्र क्रियातिपत्तिर्न भवति ।। ७६ ॥
भविष्यति फलहेतौ । ७७ । हेतु-फलभूते च भविष्यति अर्थे वर्तमानात् धातोः सप्तमी वा भवति ।
यदि गुरून् उपासीत शास्त्रान्तं गच्छेत् । यदि गुरून् उपासिष्यते शास्त्रान्तं गमिष्यति । भविष्यति इति किम् ? दक्षिणेन चेत् याति न शकटं पर्याभवति । अनिष्पत्तौ क्रियातिपत्तिः-दक्षिणेन चेत् अयास्यत् न शकटं पर्याभविष्यत् ॥ ७७ ॥
अकचिति कामाविष्कारे । ७८ । कामस्य आविष्कारे प्रवेदने धातोः सप्तमी भवति 'कचित्'शब्दाप्रयोगे ।
अभियोगः मे भुञ्जीत भवान् । इच्छा मे भुञ्जीत भवान् । कामाविष्कारे इति किम् ? इच्छन् करोति । अकच्चिति इति किम् ? कच्चित् जीवति मे माता ॥ ७८ ॥
सप्तमी-पञ्चम्यौ इच्छार्थे । ७९ । इच्छार्थे उपपदे कामाविष्कारे गम्यमाने धातोः सप्तमी-पञ्चम्यौ भवतः ।
इच्छामि कामो मे भुञ्जीत भवान् । कामाविष्कारे इति किम् ? इच्छन् करोति । अत्र अतिपत्तौ परत्वात् पञ्चम्या क्रियातिपत्तिर्बाध्यते । एवम् उत्तरत्राऽपि ।। ७९ ।।
विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-संप्रश्न-प्रार्थने । ८०।
विधिः नियमः "अज्ञातज्ञापनम्” इति एके। निमन्त्रणम् यत् नियोगतः कर्तव्यम् , "क्रियासु आभिमुख्यकरणम्” इति एके। आमन्त्रणम् यत् कामचारतः कर्तयम् "कर्तयेषु अनुज्ञापनम्" इति एके । अधीष्टम् सत्कारपूर्विका व्यापारणा । संप्रश्नः बुभुत्साऽऽवेदनम् । प्रार्थनम् याञ्चा । एषु प्रत्ययार्थविशेषणेषु धातोः सप्तमी-पञ्चम्यौ भवतः ।
कटं कुर्यात् करोतु वा। निमन्त्रणे-संध्यासु नियमं कुर्यात् करोतु वा । आमन्त्रणे-इह आसीत आस्ताम् वा । अधीष्टे-तत्वं नः प्रसीदेयुः पादाः प्रसीदन्तु वा । संप्रश्ने-किन्नु
१. "अभिप्रायः" ४।४।१२४ । शा० । २. कच्चिजीवति ते माता कच्चिजीवति ते पिता । माराविद ! त्वां पृच्छामि कञ्चिज्जीवति पार्वती" ॥ काशिका-३।३।१५३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org