________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
चित्र । ७१। चित्रम् आश्चर्यम् तस्मिन् गम्यमाने यच्च-यत्रयोः उपपदयोः धातोः सप्तमी भवति ।
चित्रम् यच्च यत्र वा तत्रभवान् मूलगुणान् अपनयेत् । अनिष्पत्तौ क्रियातिपत्तिःआश्चर्यम् यच्च यत्र वा तत्रभवान् मूलगुणान् अपानेष्यत् । पृथग्योगः उत्तरार्थः ॥ ७१ ॥
शेषे भविष्यन्ती अयदौ । ७२ ।। 'यच्च'-'यत्र'ाभ्याम् अन्यस्मिन् 'यदि'शब्दवर्जिते उपपदे चित्रे गम्यमाने धातोः भविष्यन्ती भवति ।
आश्चर्यम् अन्धो नाम पर्वतम् आरोक्ष्यति । शेषे इति किम् ? 'यच्च'-'यत्र'योः सप्तमी एव, अयदौ पूर्वयोगः सावकाशः, 'यदि'अमावे तु 'यच्च'-'यत्र'योरपि परत्वात् अयमेव विधिः स्यात् इति 'शेष' ग्रहणम् । अयदौ इति किम् ? चित्रम् यदि स भुञ्जीत । अत्र अश्रद्धा अपि अस्ति इति सप्तमी ।। ७२ ।।
उत-अप्योः बाढे सप्तमी । ७३ । 'बाढ'अर्थयोः 'उत'-'अपि'शब्दयोः धातोः सप्तमी भवति ।
उत कुर्यात् । अपि कुर्यात्-बाढं करिष्यति इत्यर्थः । बाढे इति किम् ? उत पतिष्यति दण्डः ? अत्र प्रश्नोऽर्थः । अपिधास्यति द्वारम् । अत्र प्रस्थानम् अर्थः । अनिप्पत्तौ क्रियातिपत्ति:-उत अभोक्ष्यत ।। ७३ ॥
अर्थात् शक्तिसंभावने । ७४ । शब्दप्रयोगाभावे अर्थात् एव केवलात् शक्तिसंभावने गम्यमाने धातोः सप्तमी भवति ।
अपि शिरसा पर्वतं भिन्द्यात् । अपि मासम् उपवसेत्-संभाव्यते एतत्-शक्तः असौ इत्यर्थः । शक्तिग्रहणं किम् ? निदेशस्थो मे चैत्रः प्रायेण गमिष्यति । अर्थात् इति किम् ? शक्तः चैत्रः धर्म करिष्यति । अत्रापि अनिष्पत्तौ क्रियातिपत्ति:-अपि शिरसा पर्वतम् अभेत्स्यत् ॥ ७४ ॥
श्रद्धाधातौ अयदि वा । ७५ । 'श्रद्धा'धातौ उपपदे अर्थात् शक्तिसंभावने धातोः सप्तमी वा भवति 'यत्'शब्दप्रयोगाभावे ।
___ श्रद्दधे संभावयामि भुञ्जीत भवान् पक्षे भोक्ष्यते, अभुक्त । अयदि इति किम् ? श्रद्दधे यत् भुञ्जीत भवान् । अनिष्पत्तौ क्रियांतिपत्तिः-संभावयामि अभोक्ष्यत भवान् ।।७५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org