________________
कृदन्ते चतुर्थः पादः
[ २९५ किंवृत्ते उपपदे गहें गम्यमाने धातोः परे सप्तमी-भविष्यन्त्यौ भवतः ।
किं तत्रभवान् परधनम् अदत्तं गृह्णीयात्, ग्रहीष्यति वा। कतरो नाम कतमो नाम वा तत्रभवान् परधनम् अदत्तं गृह्णीत, ग्रहीष्यति वा । अत्रापि सप्तम्या निमित्तमस्ति इति अनिष्पत्तौ क्रियातिपत्ति:-किं तत्रभवान् परधनम् अदत्तम् अग्रहीष्यत् ॥ ६६ ॥
अन्यत्र अपि- अमर्ष-अश्रद्धे । ६७। अमर्षः अक्षमा । अश्रद्धा असंभावना । किंवृत्तात् अन्यस्मिन् किंवृत्ते च उपपदे अमर्षअश्रद्धयोः गम्यमानयोः धातोः सप्तमी-भविष्यन्त्यौ भवतः । वचनभेदात् अयथासंख्यम् ।
अमर्षे किंवृत्ते-न क्षमे न मर्पयामि किं तत्रभवान् अनृतं ब्रूयात् वक्ष्यति वा । अमर्षे अकिंवृत्ते-न क्षमे तत्रभवान् अनृतं ब्रूयात् वक्ष्यति वा । अश्रद्धायां किंवृत्ते-न श्रद्दधे किं तत्रभवान् अनृतं भाषेत भाषिष्यते वा । अकिंवृत्ते अश्रद्वायाम्-न श्रद्दधे तत्रभवान् अनृतं भाषेत, भाषिष्यते वा । अन्यत्र अपि इति किम् ? अर्थात् प्रकरणात् वा अमर्ष-अश्रद्धयोः गम्यमानयोः निरुपपदात् धातोर्मा भूत् । अत्रापि सप्तम्या निमित्तमस्ति इति अनिष्पत्तौ क्रियातिपत्तिः-न क्षमे न श्रद्दधे तत्रभवान् अनृतम् अभाषिष्यत ।। ६७ ॥
किंकिल-'अस्ति'अर्थयोः भविष्यन्ती । ६८।। ___किंकिले 'अस्ति'अर्थे च उपपदे अमर्ष-अश्रद्धयोः गम्यमानयोः धातोः भविष्यन्ती भवति ।
न क्षमे न श्रद्दधे किंकिल नाम तत्रभवान् पापं सेविष्यते । अस्ति नाम भवति नाम तत्रभवान् पापं सेविष्यते ।। ६८ ॥
यत्-यदि-यदा-जातौ सप्तमी । ६९ । 'यत्' शब्दादिषु उपपदेषु अमर्ष-अश्रद्धयोः गम्यमानयोः धातोः सप्तमी भवति ।
न क्षमे न श्रद्दधे यत् तत्रभवान् पापं सेवेत । एवम्-यदि यदा जातु वा भवान् पापं सेवेत । अत्र सप्तम्या निमित्तम् अस्ति इति अनिष्पत्तौ क्रियातिपत्तिः यत् तत्रभवान् अकल्पम् असेविष्यत ॥ ६९॥
गहे च यच्च-यत्रे । ७० । 'यच्च'-'यत्र'शब्दयोः उपपदयोः गहें अक्षमा-अश्रद्धयोश्च गम्यमानयोः धातोः सप्तमी भवति ।
धिग् गर्हामहे यच्च यत्र वा तत्रभवान् पापं सेवेत । न क्षमे न श्रद्दधे यच्च यत्र वा तत्रभवान् आक्रोशेत् । अत्र सप्तम्या निमित्तमस्ति इति अनिष्पत्तौ क्रियातिपत्तिः-. यञ्च यत्र भवान् आक्रोक्यत् ॥ ७० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org