SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९४ ] शब्दः भूत-भविष्यतोः उत्तरत्र समुदायेन अनुवृत्त्यर्थः ॥ ६१ ॥ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् | सप्तमीहेतवे अनिष्पत्तौ क्रियातिपत्तिः । ६२ । सप्तम्या निमित्तं हेतु-फलादिसामग्री, तस्मिन् निष्पत्तिरहिते भूते भविष्यति च अर्थे वर्तमानात् धातोः क्रियातिपत्तिर्भवति । -दृष्टः मया यदि गुरून् उपासियत शास्त्रान्तम् अगमिष्यत् - हेतुभूतं गुरूपासनम् फलभूतं च शास्त्रान्तगमनम् सप्तम्या निमित्तं भविष्यदनिष्पत्तिकमुपलभ्य एवंप्रयोगः । भूते-ह भवतः पुत्रः अन्नार्थी चङ्क्रम्यमाणः अपरश्र अतिध्यर्थी यदि स तेन दृष्टः अभविष्यत् अपि अभोक्ष्यत उत अभोक्ष्यत, न तु दृष्टः अन्येन पथा गतः । अत्र बाढार्थी अपि-उतशब्दौ सप्तम्या निमित्तम् ॥ ६२ ॥ वा उतात् प्राग् भूते । ६३ 'उत' संशब्दनात् प्राग् वक्ष्यमाणे सप्तम्या निमित्ते भूते अनिष्पत्तौ वर्तमानात् धातोः क्रियातिपत्तिर्वा भवति । कथं नाम धार्मिकोऽपि सन् भवान् पापम् आसेविष्यत घिग् गर्हामहे पक्षे कथं सेवेत ? । उतात् प्राग् इति किम् ? कालः यद् अभोक्ष्यत भवान् । भूते इति किम् ? भविष्यति नित्यमेव ॥ ६३ ॥ गर्हे अपि-जात्वोः वर्तमाना । ६४ । 'अपि '-' जातु 'शब्दयोः उपपदयोः गर्हे गम्यमाने धातोर्वर्तमाना भवति । अपि तत्र भवान् भूतानि हिनस्ति धिग् गर्हामहे । कालसामान्ये इयं वर्तमाना परत्वात् विशेषकालविहितान् प्रत्ययान् बाधते । एवम् उत्तरत्र अपि ॥ ६४॥ कथमि वा सप्तमी च । ६५ । 'कथम्' शब्दे उपपदे गर्हे गम्यमाने धातोः सप्तमी वर्तमाना च वा भवति, पक्षे यथाप्राप्तम् । कथं तत्रभवान् विवेकी परयुवतिं संभाषेत संभाषते वा, पक्षे संभाषिष्यते, संभाषिता, समभाषिष्ट, समभाषत, संत्रभाषे । अत्र सप्तम्याः निमित्तमस्ति इति अनिष्पत्तौ क्रियातिपत्तिः - कथं तत्रभवान् परयुवर्ति समभाषिष्यत ॥ ६५ ॥ किंवृत्ते सप्तमी - भविष्यन्त्यौ । ६६ । Jain Education International १. भविष्यति काले इति भावः । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy