________________
कृदन्ते चतुर्थः पादः
[ २९३ निरवधिकः गन्तव्यः तस्य यद् अवरं वलभ्याः तत्र द्विः ओदनं भोक्तास्महे । अर्वाग्भागे इति किम् ? यः अयम् अध्वा गन्तव्यः आ शत्रुजयात तस्य यत् परं वलभ्याः तत्र द्विः अध्येतास्महे । यद्यपि 'अद्य' इति अनुवादेन न कश्चित् प्रत्ययः विहितः तथाऽपि अद्यतने दृष्टः 'अद्यतनी'-'भविष्यन्ती' आदिः विधीयते । 'इव' शब्दः यथाविहितार्थः तेन यः यस्मिन काले विहितः स तत्र भवति इति नियमो लभ्यते ॥ ५८ ॥
__ कालस्य अनहोरात्राणाम् । ५९ । कालस्य संबन्धिनि अवधिवाचिनि उपपदे कालस्यैव अर्वाग्भागवर्तिनि भविष्यति अर्थे वर्तमानात् धातोः अद्य इव प्रत्ययो भवति, न चेत् सः अर्वाग्भागः अहोरात्राणां संबन्धी भवति ।
आगामिनः संवत्सरस्य आग्रहायण्याः अवरस्मिन् जिनपूजां करिष्यामि । अनहोरात्राणाम् इति किम् ? आगामिनः मासस्य यद् वा त्रिंशदात्रस्य अवरस्मिन् पञ्चदशरात्रे यद्वा अर्धमासे द्विः सूत्रम् अध्येतास्महे ।। ३९ ।।
परे वा । ६०। कालस्य संबन्धिनि अवधिवाचिनि उपपदे कालस्यैव परभागवर्तिनि भविष्यन्त्यर्थे वर्तमानात् धातोः अद्य इव प्रत्ययो भवति, न चेत् स परभागः अहोरात्राणां संबन्धी भवति ।
आगामिनः संवत्सरस्य आग्रहायण्याः परस्तात् द्विः अध्येण्यामहे, अध्येतास्महे वा। अनहोरात्राणाम् इति किम् ? आगामिनः मासस्य परस्मिन् पञ्चदशरात्रे द्विः सूत्रम् अध्येतास्महे। कालस्य इति किम् ? आ शत्रुजयात् गन्तव्ये अस्मिन् अध्वनि परस्तात् वलभ्याः द्विः ओदनं भोक्तास्महे ॥ ६० ॥
भूते प्रबन्ध-आसत्त्योः । ६१। प्रबन्धः अव्यवच्छित्तिः । आसत्तिः कालतः तुल्यजातीयेन कालेन अव्यवधानम् । तयोः गम्यमानयोः भविष्यति भूते च अर्थे वर्तमानात् धातोः अद्य इव प्रत्ययो भवति ।
___ यावज्जीवम् अन्नं दास्यति । यावज्जीवम् अन्नं अदात् दत्तवान् वा । आगामिन्यां पौर्णमास्यां गुरुपूजा भविष्यति एतस्याम् अतिक्रान्तायां पौर्णमास्याम् अभूत् भूला । 'अपि'
१ अत्र द्वयोरपि आदर्शयोः मूल सूत्रे 'अपि' शब्दः नास्ति तथापि अनेन " 'अपि' शब्दः' इत्यादिना निर्देशेन कलायते यत् सूत्रे 'अपि शब्देन भाव्यम् । अस्य सूत्रस्य स्थाने शाकटायने 'अव आसन्न-अविच्छित्त्योः " ४४।१०५। इति सूत्रम् । तथा हैमे "नानद्यतनः प्रबन्धआसत्त्योः " ५।४।५। इति सूत्रं दृश्यते । परन्तु तत्र न कनरस्मिन् अपि सूत्रे 'अपि'शब्दचर्चा प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org