________________
२९२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । धातोः वर्तमाना भवति । यो भक्तं ददाति, दास्यति, दाता वा स स्वर्ग याति, यास्यति, याता वा ॥५३॥
पञ्चम्यां हेतौ । ५४ । पञ्चम्यन्ते उपपदे पञ्चम्यन्तार्थस्य हेतौ भविष्यन्त्यर्थे वर्तमानात् धातोः वर्तमाना वा भवति ।
उपाध्यायश्चेत् आगच्छति आगमिष्यति आगन्ता वा अथ त्वं सूत्राणि अधीष्व । उपाध्यायागमनम् 'अधीष्व' इत्यस्य हेतुः ॥ ५४ ॥
सप्तमी च और्ध्वमौहर्तिके । ५५ । ऊध्वं मुहूर्तात् भवम् औ मौहूर्तिकम् । पञ्चम्यन्ते उपपदे पञ्चम्यन्तार्थस्य हेतौ औ मौहूर्ति के भविष्यति अर्थे वर्तमानात् धातोः सप्तमी वर्तमाना च वा भवति ।
. परं मुहूर्तात् उपाध्यायश्चेद् आगच्छेत्. आगच्छति, आगमिष्यति, आगन्ता वा अथ त्वं सूत्राणि अधीष्व ॥ ५५ ॥
क्रियायां तदर्थायां तुम्-वुण्-भविष्यन्त्यः । ५६ । .
यस्मात् धातोः 'वुण्'आदिविधिः तदभिधेया क्रिया अर्थः प्रयोजनं यस्याः सा तदर्था, तस्यां क्रियायाम् उपपदे भविष्यदर्थात् धातोः पराः तुम्-वुण-भविष्यन्त्यः भवन्ति ।
कर्तुं व्रजति । कारकः व्रजति । 'करिष्यामि' इति व्रजति । क्रियायाम् इति किम् ? भिक्षिष्ये इत्स्यय जैटाः । धावतः ते पतिष्यति दण्डः । 'पाकाय व्रजति' 'भूतये व्रजति' इत्यादौ चतुर्ध्या तादर्थ्यस्य गतत्वात् न भवति ॥ ५६ ॥
कर्मणः अण् । ५७। क्रियायां तदर्थायाम् उपपदे भविष्यदर्थात् धातोः परः 'अण्' प्रत्ययो भवति ।
कुम्भकारः व्रजति । वुण्-तुम्-भविष्यन्तीबाधनार्थं वचनम् । परत्वात् टकारादीन अपि बाधते-गोदायो व्रजति ॥ ५८ ॥
देशस्य अवधौ अर्वाग्भागे अद्येव । ५८ । देशस्य सम्बन्धिनि अवधिवाचिनि उपपदे देशस्य अर्वाग्भागे भविष्यति अर्थे वर्तमानात् धातोः अद्य इव प्रत्ययो भवति न अनद्यतनः ।
यः अयम् अध्वा गन्तव्यः आ शत्रुजयात् तस्य यद् अवरं वलभ्याः तत्र द्विः ओदनं भोक्ष्यामहे । एष्यति इति किम् ? यः अयम् अध्वा आक्रान्तः आ शत्रुजयात् तस्य यद् अवरं वलभ्याः तत्र द्विः ओदनम् अभुमहि । अवधौ इति किम् ? यः अयम् अध्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org