SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कृदन्ते चतुर्थः पादः परिदेवने श्वस्तनी । ४८ । 'भविष्यति' अर्थे वर्तमानात् धातोः परिदेवने गम्यमाने श्वस्तनी भवति । परिदेवनं शोचनम् । इयं नु कदा गन्ता या एवं पादौ निदधाति ! ॥ ४८ ॥ अनद्यतने । ४९ । नास्ति अद्यतन: यस्मिन् तस्मिन् भविष्यत्यर्थे वर्तमानात् धातोः श्वस्तनी भवति । व: गन्ता | बहुव्रीहिपरिग्रहः किम् ? अद्य श्वो वा गमिष्यति । श्वः करिष्यति' 'मासेन करिष्यति' इति पदं भविष्यत्सामान्ये एव, शब्दान्तरत्वे अन्यथा वाक्यार्थः ॥ ४९ ॥ [ २९१ पुरा-यावतोः वर्तमाना । ५० । भविष्यति अर्थे वर्तमानात् धातोः पुरा- यावतोः उपपदयोः वर्तमाना भवति । पुरा अधीते । पुरा व: अधीते । यावद् भुङ्क्ते । लाक्षणिक-वात् इह न भवति - प्रत्युद्यानया पुरा मानयिष्यते 'नगरेण' इत्यर्थः । यावद् दास्यते तावद् भोक्ष्यते यत्परिमाणम इत्यर्थः ॥ ५० ॥ Jain Education International वा कदा कर्त्योः । ५१ । भविष्यदर्थात् धातोः कदा कह्यः उपपदयोः वर्तमाना भवति वा । कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता । कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता ॥ ५१ ॥ किंवृत्ते अर्थित्वे । ५२ । भविष्यदर्थात् धातोः किंवृत्ते उपपदे प्रष्टुलिप्सायां गम्यमानायां वर्तमाना वा भवति । को भवतां भिक्षां ददाति दास्यति, दाता वा । कतरः कतमो वा भिक्षां ददाति, दास्यति, दाता वा । किमः विभक्ति - इतर डतमान्तस्य वृत्तम् किंवृत्तम् इति वैयाकरणस्मृतिः । तेन किंतराम् किंतमाम् गौः इत्यादौ न भवति । अर्थित्वे इति किम् ? कः पुरे यास्यति याता वा ॥ ५२ ॥ अर्थ्यसिद्धौ । ५३ । अर्थ्यः दाता देयं वा, तस्य तस्मात् वा फलनिष्पत्तौ गम्यमानायां भविष्यदर्थात् १. " कथं 'श्वो भविष्यति, मासेन गमिष्यति' ? पदार्थे भविष्यन्ती पश्चात् 'श्वः शब्देन योगः " ५।३।५। हैमं सूत्रम् । २ " वैयाकरणसमयः " इति हैमम् ५|३|९| For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy