________________
२९० ]
आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् ।
नमि-कम-कम्प-स्मि - हिंस- अजस- दीपः रः । ४२ । एभ्यः परः शीलादौ सति अर्थे 'र' प्रत्ययो भवति ।
नम्रः । कम्रः । कम्प्रः । स्मेरं मुखम् । हिंस्रः । 'अजस्रम् ' इति 'जसू मोक्षणे' नञ्पूर्वः 'र' प्रत्ययान्तः स्वभावात् क्रियासातत्ये वर्तते । दीप्रः ॥ ४२ ॥ तृषि - धृषि - स्वपः नजिङ । ४३ । एभ्यः परः शीलादौ सति अर्थे 'नजिङ्' प्रत्ययो भवति । तृष्णक् । धृष्णक् । स्वप्नक् ॥ ४३ ॥
भीरु भीरुक-भीलुकं च । ४४ ।
एते 'रु' - 'रुक'- 'लुक' प्रत्ययान्ता निपात्यन्ते ।
भीरुः । भीरुकः । भीलुकः । चकारः ' शीलादौ' इति अनुकर्षणार्थ: तेन उत्तरत्र न अनुवर्त्तते ॥ ४४ ॥
'उणू' आदयः । ४५ ।
'बहुलम्' इति वर्तते । घातोः सति अर्थे वर्तमानात् 'उण्'आदयः प्रत्यया बहुलं
I
भवन्ति ।
कारुः । किंशारुः । ‘बहुल' ग्रहणं प्रयोगानुसरणार्थम् तेनं येभ्यः घातुभ्यः यथा दृश्यन्ते तेभ्यः तथा भवन्तीति धात्वर्थकार्यनियमः सिद्धः ।
Jain Education International
संज्ञासु धातुरूपाणि प्रत्ययाश्व ततः परे ।
कार्यानुबन्धोपपदं नेयमेवम् उणादिषु ॥ ४५ ॥ भविष्यति 'गमी' आदिः । ४६ ।
भविष्यति अर्थे 'गर्मी' आदिः साधुः वेदितव्यः ।
गमी । आगामी । भावी । प्रस्थायी । प्रतिबोधी । प्रयायी । परिवायी । पदे सामान्य
वृत्तौ अपि अर्थकरणादिना विशेषप्रतिपत्तिः भवति इति 'श्वः गमी ग्रामम्' इत्येष वाक्यार्थः ॥ ४६॥
भविष्यन्ती । ४७ ।
'भविष्यति' अर्थे वर्तमानात् धातोः भविष्यन्ती भवति ।
करिष्यति । यास्यति ॥ ४७ ॥
१ " तेन ये येभ्यो धातुभ्यो यस्मिन्नर्थे यथा दृश्यन्ते ते तेभ्यः तस्मिन् तथा भवन्तीति धात्वर्थकार्य नियमः सिद्धो भवति " - शा० ४।३।२८० |
For Private & Personal Use Only
www.jainelibrary.org