SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ कृदन्ते चतुर्थः पादः [ २८७ प्रसारी। प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी । " वे' : अपि दु- सर्तिभ्याम्” [ हैमं मतम् ] केचित्-विद्रावी । विसारी ॥ २०॥ परेः सृ-दह-मुह-वद-देषृ-देवेः । २१ । 'परि' पूर्वेभ्यः शीलादौ अर्थे ' घिनञ्' प्रत्ययो भवति । परिसारी । परिदाही । परिमोही । परिवादी । परिदेवते - परिदेवी । परिदेवयतिपरिदेवी ॥ २१ ॥ क्षिप-रदः । २२ । 'परि' पूर्वाभ्याम् आभ्यां शीलादौ सति अर्थे 'घिनञ्' प्रत्ययो भवति । परिक्षेपी | परिराटी | ॥ २२ ॥ वादेश्च णू | २३ । 'परि' पूर्वात् वादयतेः क्षिप-रटिभ्यां च शीलादौ अर्थे 'वुण्' प्रत्ययो भवति । परिवादकः । परिक्षेपकः । परिराटकः । अतः 'वुण्' वचनात् 'तृच्' आदयः शीलादिविषये असरूत्वात् न भवन्ति ॥ २३ ॥ क्लिश-हिंस-खाद - विनाशि- व्याभाष असूय-निन्दः । २४ । एभ्यः शीलादौ अर्थे 'वुण्' प्रत्ययो भवति । क्लेशकः । हिंसकः । खाटकः । विनाशकः । व्याभाषकः । असूयकः । निन्दकः ||२४|| उपसर्गात् देवृ-देवि-कुशः । २५ । उपसर्गात् परेभ्यः एभ्यः शीलादौ सति अर्थे 'वुण्' प्रत्ययो भवति । आदेवकः । परिदेवकः । आदेवयति आदेवकः । परिदेवकः । आक्रोशकः । उपसर्गात् इति किम् ? देवनः । देवयिता । क्रोष्टा ॥ २५ ॥ सि - गृधि घृषि - क्षिपः क्नुः । २६ । एभ्यः शीलादौ सति अर्थे 'क्नु' प्रत्ययो भवति । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिष्णुः ।। २६ ।। शदि-सदि-दा- सि धेटः रुः । २७ । एभ्यः शीलादौ सति अर्थे 'रु' प्रत्ययो भवति । १. ५२।५४ तथा ५५ हैमं सूत्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy