________________
२८६ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
निर्देशात् एव 'न' लुक् । त्यागी । अनुरोधी । 'युज' इति युज्यते युनक्त्योः ग्रहणम् अविशेषात् ॥ १३ ॥
'शम्' अष्टकात् । १४ ।
'शम्' आदिभ्यः अष्टभ्यः शीलादौ अर्थे 'घिनेन्' प्रत्ययो भवति ।
शमी | दमी । श्रमी । भ्रमी । क्रमी । क्लमी । मादी । प्रमादी ॥ १४ ॥ आङ: यम-यस-क्रीड-मुषः । १५ ।
'आङ्' पूर्वेभ्यः 'यम्' आदिभ्यः शीलादौ अर्थे 'घिनञ्' प्रत्ययो भवति । आयामी । आयासी । आक्रीडी । आमोषी । शीलादीयाः प्रायेण रूढिप्रकाराः प्रयोगानुसारेण युज्यन्ते इति उपसर्गाधिक्ये न भवति, एवम् अन्यत्रापि ॥ १५ ॥ समः सृज-पृच-ज्वरः अकर्मकात् । १६ ।
'सम्' पूर्वेभ्यः एभ्यः अकर्मकेभ्यः शीलादौ अर्थे ' विनञ्' प्रत्ययो भवति । संसर्गी | संपर्क | संज्वरी । अकर्मकात् इति किम् ? संपृणक्ति शाकम् ॥ १६ ॥ वेः कत्थविच-स्रम्भ-कब-कस हनः । १७ ।
I
‘वि' पूर्वेभ्यः एभ्यः शीलादौ अर्थे 'घिनञ्' प्रत्ययो भवति ।
विकत्थी । विवेकी । विस्रम्भी । विकाषी । विकासी । विघाती | ॥१७॥ लॅषः अपात् च । १८ ।
अपात् वेः च परात् लषेः शीलादौ अर्थे 'घिनञ' प्रत्ययो भवति । अपलाषी । विलाषी । अभेः अपि केचित् इच्छन्ति - अभिलाषी ॥ १८ ॥ अतेश्च चरेः । १९ ।
I
अतेः अपात् च परात् चरेः शीलादौ अर्थे 'घिनञ्' प्रत्ययो भवति ।
अतिचारी । अपचारी । “सभू-अभि-व्यभेः अपि " [ हैमं मतम् ] केचित् -संचारी । अभिचारी । व्यभिचारी ॥ १९ ॥
प्रात् सर्ति-दु-मथ वद-वसः । २० ।
'प्र' पूर्वेभ्यः एभ्यः शीलादौ अर्थे 'घिनञ्' प्रत्ययो भवति ।
<<
१. घिनण् पा० पू० । २ " साधादयः प्रायेण शा० लघु० ४।३।२४३ । ३. " लपः अपे च " - ४ | ३ |२४६ । इति शाकटायनीयम् । ४. सम् अति-अप- अभिव्यभेः चरः " ५।२/६२ ॥ इति हैमं सूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org