________________
कृदन्ते चतुर्थः पादः
[ २८५ वृतू-वर्तनः । स्पर्द्धि-स्पर्धनः । व्यञ्जनाबन्तात् इति किम् ? एधिता। धर्ता । अकर्मकात् इति किम् ? वसिता वस्त्रम् ॥ ६ ॥
न णिङ्-य-सूद-दीप-दीक्षः । ७। णिङन्तात् यकारान्तात् 'सूद' आदिभ्यश्च शीलादौ अर्थे 'अन' प्रत्ययो न भवति ।
हस्तयिता ।क्नूयिता । सूदिता । दीपिता। दीक्षिता। मधुसूदनः, रिपुसूदनः इति नन्द्यादिः ॥७॥
द्रम-क्रमः यङः । ८। आभ्यां यङन्ताभ्यां शीलादौ अर्थे 'अन' प्रत्ययो भवति ।
दन्द्रमणः । चङ्क्रमणः । 'य' इति निवृत्त्यर्थम् सकर्मकार्थ वचनम् अतः लुग हि प्रत्ययविषयभूते भवति ॥ ८ ॥
भू-जेः ष्णुक् ।९। आभ्यां शीलादौ अर्थे 'एणुक्' प्रत्ययो भवति । भूष्णुः । जिष्णुः ॥ ९ ॥
__ ग्ला-स्थ: स्नुः । १० । आभ्यां शीलादौ अर्थे 'स्नु' प्रत्ययो भवति ।
ग्लास्नुः । स्थास्नुः ॥ १० ॥ वृत्-वृधू-भ्राज-सह-चर-रुच-अपत्रप-अलंकृञ्-निराकृतः इष्णुः । ११ ।
एभ्यः शीलादौ अर्थे 'इष्णु' प्रत्ययो भवति । ..
वर्तिष्णुः । वर्धिष्णुः । भ्राजिष्णुः । सहिष्णुः । चरिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । अलंकरिष्णुः । निराकरिष्णुः ॥ ११॥
उदः पचि-पति-पदि-मदेः । १२। 'उत्'पर्वेभ्यः एभ्यः शीलादौ अर्थे 'इष्णु' प्रत्ययो भवति ।
उत्पचिष्णुः । उत्पतिष्णुः । उत्पविष्णुः । उन्मदिष्णुः ॥ १२ ॥ दुष-द्विष-द्रुह-दुह-अभ्याहन-युज-भुज-भज-रुज-रज-त्यज-अनुरुधः
घिनञ् । १३ । एभ्यः शीलादौ अर्थे 'घिनन्' प्रत्ययो भवति । दोषी । द्वेषी। द्रोही। दोही । अभ्याघाती । योगी । भोगी। भागी। रोगी । रागी। १. " अतः ४।३१८२॥ इति हि लुक् प्रत्यये विषयभूतेऽपि भवति" ५।२।४६ । इति हैमे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org