________________
कृदन्ते चतुर्थः पादः
शील-साधु-धर्मे तृन् । १। 'सति' इति वर्तते । ‘शील' आदौ सति अर्थे वर्तमानात् धातोः 'तृन्' प्रत्ययो भवति।
कटं कर्ता-करणम् अस्य शीलम् इत्यर्थः । गन्ता खेलम्—साधु गच्छति इत्यर्थः । धर्मः अनुप्रवृत्त आचारः। वधूम् ऊढां मुण्डयितारः श्राविष्ठायनाः-मुण्डनम् एतेषां कुलधर्मः इत्यर्थः । 'सति' इति अधिकारः 'एष्यत्' अधिकारात् प्राक् द्रष्टव्यः ॥ १ ॥
शृ-हन-वृष-भू-स्था-कम-गमात् उकण् । २। एभ्यः शीलादी अर्थे 'उकण्' प्रत्ययो भवति । प्रशारुकः । आघातुकः । वर्षकः। भावुकः । प्रस्थायुकः | कामुकः । आगामुकः ॥२॥
___ लषि-पति-पदिभ्यः । ३ । एभ्यः शीलादौ अर्थे 'उकण्' प्रत्ययो भवति ।
अपलाषुकः । पातुकः । उपपादुकः । बहुवचनं शीलादिभिः सह यथासंख्याऽभावार्थम् । पृथग्योगः उत्तरार्थः ॥ ३ ॥
भूषा-क्रोधार्थ-मृ-गृधि-जु-ज्वल-शुभश्च अनः । ४। । एभ्यः 'लष' आदिभ्यश्च शीलादौ सति अर्थे 'अन' प्रत्ययो भवति ।
भूषणः । मण्डनः। क्रोधार्थ-क्रोधनः । रोषणः । सरणः । गर्धनः । जवनः । जवतिः वेगे संस्कारे च सौत्रो धातुः । ज्वलनः । शोभनः । लषणः । पतमः । पदनः । पदेः 'अन'वचनं सकर्मकार्थम् ॥ ४ ॥
'शद-चालार्थात् अकर्मकात् । ५। शब्दार्थात् चालार्थात् च अकर्मकात् शीलादौ अर्थे 'अन' प्रत्ययो भवति । शब्दनः । चलनः । कम्पनः । अकर्मकात् इति किम् ? पठिता विद्याम् ॥ ५ ॥
ङित्-इतः व्यञ्जनाद्यन्तात् । ६। डितः इदितश्च व्यञ्चनाद्यन्तात् अकर्मकात् शीलादौ अर्थे 'अन' प्रत्ययो भवति । १. 'शुच' इति काशिका ३।२।१५। हैमेऽपि ५।२१४२। २. अनः प्र पा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org