________________
कृदन्ते तृतीयः पादः
[ २८३ संज्ञा-ऋषौ करणे । ४४ । 'पू'धातोः संज्ञायाम् ऋषौ च करणे इत्र' प्रत्ययो भवति । ओधोपकरणं पवित्रम् । पवित्रः अयम् ऋषिः ॥ ४४ ॥
खेन-सह-लू-धू-चर-अर्तेः । ४५ । एभ्यः सदर्थवृत्तिभ्यः करणे 'इत्र' प्रत्ययो भवति ।
खनित्रम् । सहित्रम् । लवित्रम् । पवित्रम् । चरित्रम् । अरित्रम् ।। ४५ ॥ दाब्-नी-यु-युज-सि-सिच-स्तु-तुद-मिह-नह-दंश-शस्-पतेः ब्रट् । ४६ ।
एभ्यः सदर्थवृत्तिभ्यः करणे 'त्रट' प्रत्ययो भवति ।
दाति अनेन दात्रम् । नेत्रम् । योत्रम् । योक्त्रम् । सेत्रम् । सेक्त्रम् । स्तोत्रम् । तोत्रम् । मेढ़म् । नधी । दंष्ट्रा । शस्त्रम् । पत्रम् । टकारः 'नधी' इति ङीप्रत्ययार्थः । 'दंष्ट्रा' इति अजादित्वाद् आप् ॥ ४६ ॥
हल-क्रोडमुखे पुवः । ४७। पुवो धातोः हलमुखे क्रोडमुखे च करणे 'त्रट' प्रत्ययो भवति । हलस्य पोत्रम् । सूकरस्य पोत्रम्-मुखम्-इत्यर्थः ॥ ४७ ।।
धात्री । ४८ । धेटः धात्रश्च कर्मणि 'ट्' प्रत्ययो निपात्यते ।
धयति ताम् इति धात्री-स्तनदायिनी। दधाति तां व्याधिषु इति धात्रीआमलकी ।। ४८ ॥
॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ कृति तृतीयः पादः समाप्तः ॥
१. "लूधसूखनसहचरअर्तेः"४३१२७२। शा० अमो०। अत्र सूत्रवृत्तौ 'सवित्रम्'इंति उदाहृतम् । एवमेव काशिकायाम् ३।२।१८४ । हैमेऽपि ५।२१८७ । तथापि नैतत् मलयगिरिसूत्रे उदाहरणे वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org