________________
२८२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
कान्तोऽभिव्याहृतो हृष्टः तृप्तः सृप्तोऽमृतस्तथा । लिप्तः स्निग्धश्च दयितः इत्याद्याः सति लक्षिताः ॥ कष्टं भविष्यतीत्याहुः स गम्यादिषु दृश्यताम् ॥ ४० ॥
सं-वि-प्रात् अनाम्नि भुवो दुः।। ४१ । सं-वि-प्रेभ्यः परात् भवतेः सति अर्थे वर्तमानात् अनाम्नि 'डु' प्रत्ययो भवति । संभुः । विभुः । प्रभुः । अनाम्नि इति किम् ? विभुर्नाम कश्चित् ॥ ४१ ॥
___ 'मितद्रु'आदयः । ४२। एते 'डु' प्रत्ययान्ता निपात्यन्ते ।
मितं द्रवति मितनुः । शंभुः । स्वयंभुः। “संभुवः सदृशम्" [ "स्वयंभुवा भूतहितेन" [ श्री समन्तभद्राचार्यरचितस्वयंभुस्तोत्र श्लो० १ ] इति किबन्तौ । 'मितद्रु'- आदयः प्रयोगगम्याः ॥ ४२ ॥
इत्रः पुवः दैवते । ४३ । 'पू'धातोः सदर्थवृत्तेः दैवते कर्तरि 'इत्र' प्रत्ययो भवति ।
पवित्रः अर्हन् स मां पुनातु ।। ४३ ।। शाकटायनचिन्ता
"शीलितो रक्षितः क्षान्तः आकृष्टो जुष्ट उद्यतः । संयतः शयितः तुष्टः रुष्टो रुषित आसितः ॥ कान्तोऽभिव्याहृतो हृष्टो दृप्तः तृप्त-मृतस्तथा । लिप्तः स्निग्धश्च दयितः इत्याद्याः सति लक्षिताः ॥ कष्टं भविष्यतीत्याहुः स गम्यादिषु दृश्यताम् । -४३१२७९ ।
"शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः । संयतः शयितः तुष्टः रुष्टो रुषित आशितः ॥ कान्तोऽभिव्याहृतो हृष्टः तृप्तः सृप्तः स्थितो भृतः । अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्त-विस्मिती ॥ संरब्धा-ऽऽरब्ध-दयिता दिग्धः स्निग्धोऽवतीर्णकः ।। आरूढो मूढ आयस्तः क्षुधित-क्लान्त-वीडिताः ॥ मत्तश्चैव तथा क्रुद्धः श्लिष्टः सुहित इत्यपि ।
लिप्त-दृप्तौ च विज्ञेयौ सति लग्नादयस्तथा" -५।२।९२ । २. ति तक्षिताः पा० । ३. कष्टं भवतीत्याहुः पा० पू० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org