________________
कृदन्ते तृतीयः पादः
[ २८१
धारयन् तर्कशास्त्रम् । अधीयन् पुण्डरीकम् । अकृच्छ्रे इति किम् ? कृच्छ्रेण धारयति । कृच्छ्रेण अधीते ॥ ३७ ॥
पूङ्-यजः शानः । ३८ ।
आभ्यां सति अर्थे वर्तमानाभ्यां शानः प्रत्ययो भवति ।
पवमानः । यजमानः । आनशा न षष्ठीसमासः, न च यजेः अफलवति कर्तरि सः अस्ति इति वचनम् ॥ ३८ ॥
भवति ।
शक्ति वयः -शीले । ३९ ।
सति अर्थे वर्तमानात् धातोः शक्तौ वयसि शीले च गम्यमाने 'शान' प्रत्ययो
कति इह पचमानाः - कति इह पाके समर्थाः ? इत्यर्थः । कति इह शिखण्डं वहमानाः ? यस्मिन् वयसि शिखण्डवहनम् तत् इह वयः गम्यते । कति इह मण्डयमानाः - मण्डनशीलाः ? इत्यर्थः ॥ ३९ ॥
बुद्धि-इच्छा-पूजार्थ-त्रीत् - शील्यादिभ्यः क्तः । ४० ।
बुद्ध्यर्थेभ्य: इच्छार्थेभ्यः पूजार्थेभ्यः 'जि' अनुबन्धेभ्यः शील्यादिभ्यश्व सति अर्थे वर्तमानेभ्यः 'क्त' प्रत्ययो भवति ।
राज्ञां ज्ञातः । इच्छार्थ - राज्ञाम् इष्टः । राज्ञां मतः । राज्ञां पूजितः । राज्ञाम् अर्चितः । ञिमिदा - मिन्नः मिन्नवान् ।
शीलितो रक्षितः क्षान्तः आक्रुष्टो जुष्ट उद्यतः ।
संयतः शयितस्तुष्टो रुष्टो रुषित आसितः ॥
१. एतानि पद्यानि काशिकायाम्, शाकटायनचिन्तामणिवृत्तौ तथा हैमव्याकरणे किश्चित किञ्चित् क्वचिद् वा सर्वथा परिवर्तितरूपेण यथा विद्यन्ते तथा निर्दिश्यते
काशिका -
Jain Education International
'शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि । रुष्टश्च रुषितचोभौ अभिव्याहृत इत्यपि ॥ हृष्ट-तुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ ।
कष्टं भविष्यतीत्याहुः अमृतः पूर्ववत् स्मृतः ॥
कष्ट इति भविष्यति काले । अमृतः पूर्ववत् - वर्तमाने इत्यर्थः । तथा सुप्तः (सप्तः पाठान्तरम् ) । शयितः । आशितः । लिप्तः । तृप्तः । इत्येवमादयः अपि वर्तमाने द्रष्टव्याः ”
३।२११८८ ।
३६
For Private & Personal Use Only
-
www.jainelibrary.org