SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८.] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ननौ पृष्टोक्तौ सति इव । ३१ । 'अनद्यतने' इति निवृत्तम् । पृष्टप्रतिवचने भूते अर्थे वर्तमानात् धातोः 'ननु'शब्दे उपपदे वर्तमाने इव प्रत्ययो भवति-वर्तमानकालविहिता वर्तमाना-शत-आनशो भवन्तिइत्यर्थः । किम् अकार्षीः कटं चैत्र ! ? ननु करोमि भोः ! ननु कुर्वन्तम् कुर्वाणं वा मां पश्य । पृष्टौक्तौ इति किम् ? ननु अकार्षीत् कटं चैत्रः ॥ ३१ ॥ न-न्वोः वा । ३२ । न-वोः उपपदयोः भूतेऽर्थे वर्तमानात् धातोः सति इव प्रत्ययो भवति वा । किम् अकार्षीः चैत्र ! ? न कुर्वन्तम् कुर्वाणं वा मां पश्य पक्षे न अकार्षम् । नु करोमि भोः ! । नु कुर्वन्तम् कुर्वाणं वा मां पश्य, नु अकार्षम् ॥ ३२ ॥ सति वर्तमाना । ३३ । सन् विद्यमानः, सति अर्थे वर्तमानात् धातोः परा वर्तमाना भवति । पचति । पठति ॥ ३३ ॥ द्विषः अरौ शतृ । ३४ । द्विषः सति अर्थे वर्तमानात् अरौ कर्तरि 'शतृ' प्रत्ययो भवति । द्विषन्-शत्रुः इत्यर्थः । अरौ इति किम् ? पतिर्दृष्टा ॥ ३४ ॥ अहः स्तुत्ये । ३५ । अर्हतेः सति अर्थे वर्तमानात् स्तुत्ये कर्तरि 'शतृ' प्रत्ययो भवति । अर्हन विद्याम्-अत्र विद्यायोग्यतया प्रशंसा । स्तुत्ये इति किम् ? चौरः वधमर्हति ॥३५॥ सुञः सत्रिणि । ३६ । सुञः सति अर्थे वर्तमानात् सत्रिणि कर्तरि 'शतृ' प्रत्ययो भवति । सुन्वन् सत्री । सत्रिणि इति किम् ? सुरां सुनोति ॥ ३६ ॥ धारि-इङः अकृच्छे । ३७ । अकृच्छः सुखसाध्यः, तस्मिन् सति अर्थे वर्तमानान् धारेः इङश्च परः 'शतृ' प्रत्ययो भवति । १ हैमेऽपि एतद् उदाहरणम् ५।२।१६ सूत्रे। तत्रैव 'पृच्छति स्म । “वसन्ति' । इत्यादीनि उदाहरणानि। तथा “यावद् गिरः खे मरुतां चरन्ति" एतदपि पद्यं कुमारसंभवीयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy