SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ कृदन्ते तृतीयः पादः [ २७९ परोक्षे । २७ । प्रयोक्त्रा साक्षात् अनधिगतं परोक्षम् । तस्मिन् भूतानद्यतने अर्थे वर्तमानात् धातोः परोक्षा भवति । चकार । सुप्तः अहं किल विललाप। "अभूवन् तापसाः केचित् पाण्डुपत्र फलाशिनः । पारित्रज्यं तदाऽऽदत्त मरीचिश्च तृषादितः” ॥ [ इत्यादी भूतानद्यतने परोक्षेऽपि भूतमात्रस्य भूतानद्यतनमात्रस्य च विवक्षायाम् अद्यतनीह्यस्तन्यौ । न हि वस्तुनि सर्वे धर्माः संभविनः अवश्यंविवक्षितव्याः । पृथगयोगः उत्तरार्थः ॥ २७॥ ह-शश्वत्-पञ्चवर्षान्तःप्रच्छथे ह्यस्तनी च । २८ । हे शश्वति च उपपदे पञ्चवर्षमध्यप्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानात् धातोः ह्यस्तनी परोक्षा च भवति । अभिजानासि चैत्र ! ह इति ? ह अकरोत् । शश्वत् चकार । किम् अगच्छत् चैत्रः ? ह-शश्वत्-पञ्चवर्षान्तःप्रच्छये इति किम् ? जघान कंसं किल वासुदेवः । भूतानद्यतनमात्रविवक्षायां पक्षे ह्यस्त सिद्धौ वचनं स्मृत्यर्थे भविष्यन्तीबाधनार्थम् ॥ २८ ॥ 'पुरा'आदौ वा अद्यतनी । २९ । 'परोक्षा' इति निवृत्तम् । 'पुरा'आदौ उपपदे भूतानद्यतने अर्थे वर्तमानात् धातोः अद्यतनी वा भवति । ... अवात्सुः इह पुरा छात्राः पक्षे अवसन् इह पुरा छात्राः । “तदा अभाषिष्ट राघवः" [ ] अभाषत बभाषे वा । इति ह पुरा अकार्षीत् । शश्वत् पुरा अकार्षीत् । 'पुरा'योगे अद्यतनीवचनात् स्मृत्यर्थ-ह-शश्वत्-स्मेषु उपपदेषु सामान्यविवक्षायाम् अद्यतनी न भवति ॥ २९ ॥ स्मे च वर्तमाना । ३०॥ 'स्म'शब्दे पुरा च उपपदे भूतानद्यतनेऽर्थे वर्तमानात् धातोः वर्तमाना भवति । "पृच्छति स्म पुरोधसम्' [ ] । “वसन्ति इह पुरा छात्राः" । [...] " अथ आह वर्णी विदितो महेश्वरैः” [ कुमारसंभवे सर्ग ५ श्लो० ६५] । 'स्म'-'पुरा' योगे परत्वात् वर्तमानैव-चैत्रेण स्म पुरा अधीयते ॥ ३० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy