SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २७८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अपचत् । बहुव्रीहिपरिग्रहः किम् ? 'अद्य ह्यः वा अभुक्ष्महि' इति व्यामिश्रे भूतसामान्ये च न भवति । अद्यतनेऽपि अद्यतनः मुहूर्तादि सामान्यं वा अस्ति इति तत्रापि प्रतिषेधः । आगमाम घोषान् । अपाम पयः । "जम्बूद्वीपविदेहेऽभूत् इतः सप्तमजन्मनि" ] इत्यादौ भूतानद्यतनेऽपि भूतसामान्यविवक्षायाम् अद्यतनी ॥२२॥ ख्याते दृश्ये । २३ । भूतानद्यतने प्रयोक्तुः दर्शनयोग्ये लोकविज्ञाते अर्थे वर्तमानात् धातोः परा ह्यस्तनी भवति । ____ अदहत् अरातीन् कुमारपालः । दृश्ये इति किम् ? जघान कंसं किल वासुदेवः । ख्याते इति किम् ? चकार कटं चैत्रः । अनयतने इति किम् | उदगात् अब आदित्यः ॥ २३ ॥ अयदि स्मृत्यर्थे भविष्यन्ती । २४ । स्मृत्यर्थे धातौ उपपदे सति भूतानद्यतने अर्थे वर्तमानात् धातोः भविष्यन्ती भवति 'यत्' शब्दप्रयोगाभावे । स्मरसि बुध्यसे अभिजानासि वा चैत्र ! लाट देशे वत्स्यामः । अयदि इति किम् ? स्मरसि यद् लाटदेशे अवसाम ॥ २४ ॥ साकाङ्क्ष वा । २५।। साकाङ्क्ष भूतानद्यतने अर्थे वर्तमानात् धातोः भविष्यन्ती वा भवति स्मृत्यर्थे धातौ उपपदे । 'अयदि' इति न अनुवर्तते तेन यदि तु परत्वात् अयमेव विकल्पः । ___ स्मरसि चैत्र ! निस्वपद्रके वत्स्यामः तत्र मोदकान् भोक्यामहे । पक्षे जानासि चैत्र ! निस्वपदके अवसाम तत्र मोदकान् अभुमहि । अत्र वास-भोजने लक्ष्य-लक्षणतया परस्परसाकाङ्के–वासेन हि भोजनं लक्ष्यते ॥ २५ ॥ अत्यन्तअपह्नवे परोक्षा । २६ । अत्यन्तअपह्नवो मूलत एव सर्वापलापः तस्मिन् गम्यमाने भूतानद्यतते वर्तमानात् धातोः परोक्षा भवति । किं त्वं कलिङ्गेषु गत्वा स्थितोऽसि ? कः कलिङ्गान् जगाम ? कः कलिङ्गान् ददर्श ? न अहं कलिङ्गान् जगाम । अत्यन्तग्रहणात् एकदेशापह्नवे ह्यस्तनी । न अहं कलिङ्गेषु अतिष्ठम् ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy