SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ कृदन्ते तृतीयः पादः करणात् यजः णिन् । १७ । करणवाचिनः नाम्नः परात् यजेः भूते काले णिन् प्रत्ययो भवति । अग्निष्टोमेन इष्टवान् अग्निष्टोमयाजी । 'अग्निष्टोमयाजी अस्य पुत्रो जनिता' 'विश्वदृश्वा पुत्रः अस्य जनिता' इत्यादौ भविष्यता विशेष्येण संबध्यमानमपि 'अग्निष्टोमयाजि' आदिपदं विशेषणं भूतार्थमेव । 'अग्निष्टोमेन यक्ष्यमाणः पुत्रः अस्य जनिता' इति हि प्रयोगे अर्थान्तरभेव प्रतीयते । एवम् भावि कृत्यम् आसीत् । भावि कृत्यं वर्तते इत्यादि ॥ १७ ॥ वि-अभेः भुवः । १८ । वेः अभेश्व परात् भवतेः भूते णिन् प्रत्ययो भवति । विभावी । अभिभावी । भूते इति किम् ? अभिभवति ॥ १८ ॥ क्त क्तवतु । १९ । धातोः भूते अर्थे वर्तमानात् 'क्त' -क्तवतू' प्रत्ययौ भवतः । कृतः । कृतवान् । ‘प्रकृतः कटः चैत्रेण' इत्यादौ समुदायस्य अभूतत्वे आदिकर्मणः भूतत्वम् ॥ १९ ॥ अद्यतनी । २० । धातोः भूते अर्थे वर्तमानात् अद्यतनी भवति । अकार्षीत् ॥ २० ॥ [ २७७ Jain Education International रात्रौ वसः अन्त्ययामाऽस्वप्तरि अद्य | २१ | रात्रौ भूते अर्थे वर्तमानात् वसेः धातोः 'अद्य' प्रयोगे अद्यतनी भवति, यदि रात्रेः अन्त्ययामम् अस्वप्तरि कर्तरि धात्वर्थो भवेत् । अमुत्र अवात्सम् । अन्त्ययामे मुहूर्तमपि स्वापे ह्यस्तनी - अमुत्र अवसम् । 'अद्य' इति प्रयोगकालनियमः तेन यत्र असौ अन्त्ययामः तस्मिन्नेव दिने यदि प्रयोगः तदा अद्यतनी न दिवसान्तरे ॥ २१ ॥ अनद्यतने ह्यस्तनी । २२ । न्याय्यात् उत्थानात् आरभ्य न्याय्यं संवेशनं यावत् अद्यतनः कालः अहः उभयतः अर्धरात्रं वा । न विद्यते अद्यतनः यस्मिन् सः अनद्यतनः तस्मिन् भूते अर्थे वर्तमानात् धातोः ह्यस्तनी भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy