________________
२७६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
कर्मणः परात् हन्तेः भूते काले कुत्स्ये कर्तरि गिन् प्रत्ययो भवति । पितृघाती । कुत्स्ये इति किम् ? चौरं हतवान् ॥ १२ ॥
ब्रह्म-भ्रूण-वृत्रात् क्वि । १३ । 'ब्रह्म' आदिभ्यः कर्मभ्यः परात् हन्तेः क्विप् एव प्रत्ययो भवति । ब्रह्महा । भ्रूणहा । वृत्रहा । अन्यः प्रत्ययः णिन् अण वा न भवति ।
अपरो नियमः—ब्रह्म-भ्रूण-वृत्रात् एव हन्तेः भूते क्विप् । तेन इह न भवति-पुरुषं हतवान् । 'आखुहा बिडालः' इति अभूते ।
अन्यो नियमः-ब्रह्म-भ्रूण-वृत्रात् हन्तेः एव भूते क्विप् । इह न भवति-ब्रह्म अधीतवान् ।
पुनर्नियमः-ब्रह्म-भ्रूण-वृत्रात् हन्तेः भूते एव क्विम् । इह न भवति-ब्रह्माणं हनिष्यति ।
तन्त्रेण इमे चत्वारः योगाः “मन्”-[ कृदन्ते द्वितीयपादे सू० ६० ] इत्यादिना सिद्धे नियमार्थाः ।। १३ ।।
सु-कर्म-पुण्य-पाप-मन्त्रात् कृतः । १४ । 'सु' शब्दात् 'कर्म' आदिभ्यश्च कर्मभ्यः परात् कृञः भूते क्विप् प्रत्ययो भवति ।
सुष्टु कृतवान् सुकृत् । कर्मकृत् । पुण्यकृत् । पापकृत् । मन्त्रकृत् । प्राग्वत् चतुर्विधो नियमः तेन प्रत्ययान्तरं न भवति । इह च न-मन्त्रम् अधीतवान् । कर्म करोति । शास्त्रं कृतवान् शास्त्रकृत् तीर्थकृत् इति च अभूते ॥ १४ ॥
सोमात् सुत्रः । १५। 'सोम' शब्दात् कर्मणः परात् सुञः भूते क्विप् प्रत्ययो भवति ।
सोमसुत् । अत्रापि चतुर्विधः नियमः तेन अन्यः प्रत्ययो न भवति । इह न-सुरां सुतवान् । सोमं पीतवान् । सोमं सुनोति ॥ १५ ॥
- अग्नेः चित्रः । १६ । 'अग्नि' शब्दात् कर्मणः परात् चिनोतेः भूते विप् प्रत्ययो भवति ।
अग्निचित् । इहापि नियमः चतुर्विधः । तेन अन्यः प्रत्ययो न भवति । इह च न भवति-इष्टकाः चितवान् । अग्निं हुतवान् | अग्निं चिनोति । “मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान्" [न्यायसंग्रहे न्याय ३७ पृ० ३७ ] इति 'अण' आदिः एव बाध्यते न क्त-क्तवतू ।। १६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org