________________
कृदन्ते तृतीयः पादः
[ २७५ जुषः भूते 'अतृ' प्रत्ययो भवति । जरन् ॥ ५ ॥
सप्तम्या जनेः डः । ६। सप्तम्यन्तात् नाम्नः परात् जनेः भूते काले डः प्रत्ययो भवति । उपसरे जातः उपसरजः ॥ ६ ॥
अजातेः पञ्चम्याः । ७। अजातिवाचिनः पञ्चम्यन्तात् परात् जनेः भूते डः प्रत्ययो भवति ।
बुद्धेः जातः बुद्धिजः संस्कारः । अजातेः इति किम् ? अश्वात् जातः । हस्तिनो जातः ॥ ७॥
क्वचित् ।८। धातोः परः लक्ष्यानुसारेण क्वचित् डः प्रत्ययो भवति ।
किं जातेन किंजः । क्षत्रियजं युद्धम् । पुमांसम् अनुजातः पुंसानुजः । वरम् आहन्ति वराहः । परिखाता परिखा । खम् ॥ ८ ॥
कर्मणः दृशः क्वनिप् ।९। कर्मणः परात् दृशेः भूते अर्थे वर्तमानात् 'क्वनिप्' प्रत्ययो भवति । परलोकदृश्वा ॥ ९ ॥
राज-सहाभ्यां युधेः कृतः । १०। आभ्यां कर्मभ्यां परात् युधेः कृञश्च भूते काले क्वनिप् प्रत्ययो भवति । वचनभेदात् न यथासंख्यम् ।
राजयुवा । राजकृत्वा । सहयुवा। सहकृत्वा । युधिः योधयत्यर्थे सकर्मकः । अकर्मका अपि हि धातवः ण्यर्थे वर्तमानाः सकर्मकाः । यथा "नेमि नमन्ति" [ ] इति ॥ १० ॥
इन् विक्रियः कुत्स्ये । ११ । कर्मणः परात् 'वि'पूर्वात् क्रीणातेः भूते काले कुत्स्ये कर्तरि इन् प्रत्ययो भवति । तैलं विक्रीतवान् तैलविक्रयी ब्राह्मणः। कुत्स्ये इति किम् ? तैलविक्रायः ॥ ११ ॥
हनः णिन् । १२। १ "केन जातः किंजः-अनिर्मातपितृकः" इत्यपि हैमे व्युत्पत्तिः-५।१।१७१। २ "स्वन्यते इति खम्' हैमं वचनम् :। ३. वणिक' इति अध्याहार्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org