________________
कृदन्ते तृतीयः पादः
स्थूल पलित-नग्न-प्रिय - अन्ध-सुभग-आढ्य-तदन्तात् अच्वेः च्यर्थे भुवः खिष्णुखुकञ । १ ।
'स्थूल' आदेः तदन्तात् च नाम्नः अच्च्यन्तात् व्यर्थे वर्तमानात् परात् भुवः खिष्णु'खुकञ्' प्रत्ययौ भवतः ।
अस्थूलः स्थूलो भवति स्थूलंभविष्णुः । स्थूलंभावुकः । पलितंभविष्णुः । पलितंभावुकः । नग्नंभविष्णुः । नग्नंभावुकः । अन्धंभविष्णुः । अन्धंभावुकः । सुभगंभविष्णुः । सुभगंभावुकः । आढचं विष्णुः । आढचंभावुकः । तदन्तः - अस्थूलंभविष्णुः । अस्थूलंभावुकः । अच्छेः इति किम् ? स्थूलीभविता । च्यर्थे इति किम् ? सुभगो भविता ॥ १ ॥ कृञः करणे खनटू । २ ।
स्थूलादिभ्यः तदन्तेभ्यः च्यर्थे वर्तमानेभ्यः अच्यन्तेभ्यः परात् कृञः करणे खनट् प्रत्ययो भवति ।
अस्थूलः स्थूलः क्रियते अनेन स्थूलंकरणं दधि । पलितंकरणं तैलम् । नग्नंकरणं द्यूतम् । प्रियंकरणो मन्त्रः । अन्धंकरणं तैलम् । सुभगंकरणं चूर्णम् । आढयंकरणं वित्तम् । तदन्तः - अस्थूलंकरणं परिदेवनम् इत्यादि । अच्छे : इति किम् ? स्थूलीकुर्वन्ति अनेन । अत एव प्रतिषेधात् अनट् अपि न भवति । अन्यथाभावात् 'अच्छेः' इति प्रतिषेधः व्यर्थः स्यात् । व्यर्थे इति किम् ? सुभगं कुर्वन्ति तैलेन, इह अनाश्रितपूर्वावस्थं सुभगकरणमात्रं विवक्षितम् ॥ २ ॥
'भस्म' आदयः भूते । ३ ।
'भस्म' आदयः 'मन्' आदिप्रत्ययान्ता भूते काले वेदितव्याः ।
भतिं तत् इति भस्म । वृतं तत्र इति वर्त्म । 'भस्म' आदयः प्रयोगगम्याः ॥ ३ ॥ सु-यजोः वनिप् । ४।
आभ्यां भूते 'वनिप्' प्रत्ययो भवति ।
सुत्वा । यज्वा । 'वन्'-' क्वनिपूभ्यां सिद्धौ भूते नियमार्थं वचनम् ॥ ४ ॥
जुषः अतु । ५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org